पुत्तूरु भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डले विद्यमानं किञ्चन नगरम् । पुत्तूरुजनपदस्य प्रधानं केन्द्रम् । इदं नगरं मङ्गलूरुतः ५२ कि मी दूरे विद्यते । मैसूरु-मङ्गलूरुमुख्यमार्गे विद्यमानानां पश्चिमघट्टशैलानां मध्ये विद्यते । २००६ तमे वर्षे अस्य नगरस्य जनसङ्ख्या ४८,०६३ आसीत् । अत्र निवसतां प्रमुखः उद्योगः कृषिः । भल्लातकस्य राष्ट्रियसंशोधनकेन्द्रं केम्प्कोसंस्थायाः प्रधानकार्यालयः पुत्तूरुनगरे विद्यते । पुत्तूरुसमीपे विद्यमानानि नगराणि - सुळ्य (३५ कि मी), उप्पिनङ्गडि (१२ कि मी), बेळ्ळारे (२५ कि मी) विट्ल (१५ कि मी)। पुत्तूरु दक्षिणकन्नडस्य द्वीतीयं बृहत् नगरं प्रमुखं वाणिज्यकेन्द्रञ्च वर्तते ।

Puttur
city
Country  India
State Karnataka
Region Tulu Nadu
District Dakshina Kannada
Government
 • MLA Mallika Prasad
Elevation
८७ m
Population
 (2011)
 • Total ५२,०००
Languages
 • Official Kannada
Time zone UTC+5:30 (IST)
PIN
574203
Telephone code 8251
Vehicle registration KA 21
"https://sa.wikipedia.org/w/index.php?title=पुत्तूरु&oldid=364337" इत्यस्माद् प्रतिप्राप्तम्