पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना

पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना (Hindi: बेटी बचाओ, बेटी पढ़ाओ, Save girl child, educate girl child) भारतसर्वकारेण भारतीयबालाभ्यः उद्घोषिता । २२ जनवरी २०१५ दिनाङ्के एतस्याः योजनायाः उद्घाटनं स्वयं प्रधानमन्त्री नरेन्द्रमोदी अकरोत् [१][२] । योजनायै शतकोटिरूप्याकाणां (१०० कोटिः (US$१४.८६ मिलियन्)) प्रारम्भिकं व्ययवृत्तं निर्धारितम् । [३]

पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना
बेटी बचाओ, बेटी पढ़ाओ
पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना
देशः भारतम्
प्रधानमन्त्री नरेन्द्र मोदी
मन्त्रालयः महिलाबालविकासमन्त्रालयः, स्वास्थ्यपरिवारकल्याणमन्त्रालयः, मानवसंसाधनविकासमन्त्रालयः इत्येतेषां मन्त्रालयानां संयुक्ताभियानम्
उद्घोषणा  22, 2015; 9 years ago (2015-01-22)
जालस्थानम् betibachaobetipadhao
सक्रियताज्ञानम्: सक्रियम्

समस्या सम्पादयतु

१९६१ तमाद् वर्षात् ०-६ वर्षीयेषु बालकेषु प्रति १००० बालकानाम् अनुपाते बालिकानां सङ्ख्यायाः रूपेण परिभाषिते बाललिङ्गानुपाते (सीएसआर) सातत्येन पतनं दरीदृश्यते । १९९१ तमे वर्षे बालिकानां सङ्ख्या ९४५ आसीत्, परन्तु २००१ तमे वर्षे न्यूनीभूय ९२७ अभवत् । ततः २०११ तमे वर्षे सा सङ्ख्या ९१८ [४] अभवत् । एषः कश्चन महाचिन्तायाः विषयः । अनुपाते न्यूनतायां महिलानां प्रति भेदभावस्य सङ्केतः स्पष्टो वर्तते । बाललिङ्गानुपातेन सुस्पष्टम् अस्ति यद्, जन्मनः पूर्वं पक्षपाति लिङ्गचयनं, जन्मोत्तरं च बालिकाभिः सह भेदभावः भारते वर्तते इति । एकत्र समाजद्वारा बालिकाभिस्सह भेदभावपूर्णः व्यवहारः अस्ति, तस्योपरि नैदानिकोपकरणानां सहजोपलब्धतायाः कारणेन, तेषां दुरुपयोगत्वाच्च कन्याभ्रूणहत्याः जायमानाः सन्ति । एवं बाललिङ्गानुपाते तीव्रपतनं भवद् अस्ति ।

क्रियान्वयः सम्पादयतु

बालिकानाम् अस्तित्वसंरक्षणाय, सशक्तिकरणस्य सुनिश्चयार्थं च समन्विताः, सम्मिलिताः च प्रयासाः अपेक्ष्यन्ते । अत एव सर्वकारः "पुत्री रक्ष्यतां, पुत्री पाठ्यताम्" (“बेटी बचाओ बेटी पढ़ाओ”) इत्येतां योजानाम् अघोषयत् । राष्ट्रियाभियानत्वेन एतस्याः योजनायाः कार्यान्वयं स्यादिति सर्वकारस्य परियोजना अस्ति । अतः सर्वेषु राज्येषु, केन्द्रशासितप्रदेशेषु च तेषां शतस्य मण्डलानां चयनं भविष्यति, येषु कन्यालिङ्गानुपातः अतीव न्यूनः अस्ति । तेषां शतस्य मण्डलानाम् उपरि ध्यानं केन्द्रितं कृत्वा विभिन्नानां जागरूकताभियानानां माध्यमेन परिस्थितिपरिवर्तनाय प्रयासाः भविष्यन्ति । एतस्मिन् अभियाने केन्द्रसर्वकारस्य त्रयः मन्त्रालयाः मिलित्वा कार्यं करिष्यन्ति । ते मन्त्रालयाः के ? इति चेत्, महिलाबालविकासमन्त्रालयः, स्वास्थ्यपरिवारकल्याणमन्त्रालयः, मानवसंसाधनविकासमन्त्रालयः च ।

एतेषां मन्त्रालयानां प्रारम्भिकस्तरे कार्ययोजना एवम् त्रयाणाम् उद्दशानां पूर्त्यै अस्ति । ते उद्देशाः एवं सन्ति ।

१) कन्याभ्रूणहत्यायाः स्थगनम्

२) बालिकानाम् अस्तित्वरक्षणं कृत्वा तासां सुरक्षायाः सुनिश्चयः

३) बालिकाभ्यः शिक्षायाः, सामाजिकयोगदानस्य च कृते प्रोत्साहनं करणीयम् । [५]

एतस्याः योजनायाः शीघ्रातिशीघ्रं कार्यान्वयं सर्वकारस्य लक्ष्यम् अस्ति । कारणं सर्वकारः भारते कन्यानां साक्षरतायाः माध्यमेन, तासां सामाजिक्याः, आर्थिक्याः आत्मनिर्भरतायाः विषये चिन्तयन्नस्ति । महिलानां कल्याणसेवां प्रति जागरूकतां जनयितुं, निष्पादनक्षमतायां च वृद्धिं कर्तुं प्रयासः एषः । एतस्याः (बी3पी) योजनायाः कृते सर्वेभ्यः काचित् 'यूट्यूब'शृङ्खला अपि उपलब्धा वर्तते । एतस्य प्रयासस्य प्रचारार्थम् एतस्मिन् मञ्चे अनेकानि चलच्चित्राणि प्रकाशितानि । ततोधिकं नागरकैः सह मिलित्वा एतस्मिन् विषये चर्चाविमर्शार्थं ‘मेरी सरकार’[नष्टसम्पर्कः] इत्यस्मिन् जालस्थाने “बेटी बचाओ बेटी पढ़ाओ” इत्याख्यस्य दलस्यापि निर्माणं कृतम् अस्ति [६] । एवं नागरकाणां सक्रिययोगदानेन, सहभागितया च सर्वकारस्य आयोजनमेतत् सफलताङ्गच्छेदिति कामना सर्वकारस्य [७] । अनेन समूहेन सह सक्रियतया परामर्शानाम् आदानप्रदानं कृत्वा सर्वकारस्य साहाय्यं करोतु इति सर्वकारः बहुधा नागरकान् निवेदयति [८] । सन्देशमाध्यमेनापि सर्वकारः एतस्य अभियानस्य प्रचारप्रसारं कुर्वन् अस्ति [९]

हरियाणाराज्ये विशेषकार्यम् [१०] सम्पादयतु

प्रधानमन्त्री नरेन्द्रमोदी एतस्याः "पुत्री रक्ष्यतां, पुत्री पाठ्यतां"-योजनायाः उद्घाटनं हरियाणा-राज्यस्य पानीपत-नगरे अकरोत् । एतस्य पृष्ठे किञ्चन विशेषं कारणम् अपि आसीत् । आभारतं हरियाणा-राज्ये एव कन्यालिङ्गानुपातः सर्वाधिकः न्यूनः अस्ति । तत्र १००० बालकेषु बालिकानां सङ्ख्या ८७४ एव अस्ति । अतः सम्पूर्णस्य भारतस्य येषां शतस्य मण्डलानां चयनम् अभवत्, तेषु द्वादशानि मण्डलानि तु हरियाणा-राज्यस्य एव सन्ति । तेषां नामानि – रेवाडीमण्डलम्, महेन्द्रगढमण्डलम्, भिवानीमण्डलम्, झज्जरमण्डलम्, अम्बालामण्डलम्, कुरुक्षेत्रमण्डलम्, सोनीपतमण्डलम्, रोहतकमण्डलम्, करनालमण्डलम्, कैथलमण्डलम्, पानीपतमण्डलम्, यमुनानगरमण्डलम् । हरियाणाराज्यसर्वकारः एतस्याः योजनायाः सफलतायै वैय्यक्तिकसंस्थानाम् अपि साहाय्यं स्व्यकरोत् । हरियाणाराज्यसर्वकारः भारतीयोद्योगपरिसङ्घ (सीआईआई) (Confederation of Indian Industries - CII), वाणिज्य एवं उद्योग ऑफ इंडियन चैम्बर्स ऑफ महासंघ (Federation of Indian Chambers of Commerce and Industries - FICCI) इत्येताभ्यां संस्थाभ्यां सह सहमतिज्ञापनम् (Memorandum of Understanding - MOU) अपि कृतवान् ।

विज्ञापनानि सम्पादयतु

जून २०१५ मध्ये #SelfieWithDaughter इत्येतत् प्रचलनं सामाजिकमाध्यमेषु अतीव प्रसिद्धम् अभवत् । एतस्य प्रचलनस्य आरम्भः तदा अभवत्, यदा १९ जून २०१५ दिनाङ्के हरियाणाराज्यस्य बिबिपुरग्रामस्य ग्रामणीः स्वपुत्र्या सह स्वोद्धृतं (selfie) स्वीकृत्य फेसबुक्-मध्ये अस्थापयत् । [११] तस्य हेझ-टेग्-प्रचलनस्य सम्पूर्णे विश्वे प्रसिद्धिः अभवत् [१२]मनोवार्तायाम् अपि नरेन्द्रमोदी "पुत्री रक्ष्यतां, पुत्री पाठ्याताम्" अभियानस्य प्रचारम् अकरोत् [१३]

सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. "PM to Launch 'Beti Bachao, Beti Padhao' Programme from Haryana". Newindianexpress.com. आह्रियत 2016-06-12. [नष्टसम्पर्कः]
  2. "PM Narendra Modi to launch 'Beti Bachao, Beti Padhao' programme from Haryana". Timesofindia-economictimes. आह्रियत 2016-06-12. 
  3. "Archived copy". Archived from the original on 5 November 2014. आह्रियत 5 November 2014. 
  4. "Archived copy". Archived from the original on 5 November 2014. आह्रियत 5 November 2014. 
  5. https://www.mygov.in/hi/group/बेटी-बचाओ-बेटी-पढ़ाओ/[नष्टसम्पर्कः]
  6. https://www.mygov.in/home/1/discuss/
  7. https://www.mygov.in/group-issue/share-your-inspiring-story-related-empowerment-girls/
  8. https://www.mygov.in/group-issue/communicating-and-changing-discriminatory-social-construct-against-girl-child/
  9. https://blog.mygov.in/announcement-of-result-of-sms-competition-under-beti-bachao-beti-padhao-scheme/
  10. http://www.dnaindia.com/locality/gurgaon/haryana-govt-launches-beti-bachao-beti-padhao-call-action-65200
  11. Mohan, Rohini (30 June 2015). "How PM Modi's Beti Bachao, Selfie Banao campaign became a rage to rewrite gender-skewed script in Haryana". Economic Times. आह्रियत 1 July 2015. 
  12. Sanyal, Anindita (28 June 2015). "#SelfieWithDaughter Trends Worldwide After PM Modi's Mann ki Baat". NDTV. आह्रियत 1 July 2015. 
  13. http://www.narendramodi.in/pm-modi-s-mann-ki-baat-june-2016-488360

अधिकवाचनाय सम्पादयतु

http://www.betibachaobetipadhao.co.in/khap-leaders-join-bbbb/ Archived २०१६-०८-१९ at the Wayback Machine