एतत् बिम्बफलम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् बिम्बफलम् आङ्ग्लभाषायां Ivy Gourd इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Coccinia grandis इति । एतत् बिम्बफलमं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, अवदंशः, दाधिकम् इत्यादिकं निर्मीयते ।

पूर्णं, मध्ये कर्तितं च बिम्बफलम्
बिम्बफलस्य पुष्पम्

संस्कृतसाहित्ये बिम्भफलम् अधरस्य उपमानत्वेन कल्पयन्ति । तस्य उदाहरणानि अनेकेषु काव्येषु द्रष्टुं शक्यानि । यथा कुमारसम्भवे

हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥[१]

बिम्बलता, पुष्पं, पर्णं चापि
बिम्बफलानि


  1. कुमारसम्भवम्, तृतीयः सर्गः
"https://sa.wikipedia.org/w/index.php?title=बिम्बफलम्&oldid=464383" इत्यस्माद् प्रतिप्राप्तम्