ब्याडगि-मरीचिका (कन्नड: ಬ್ಯಾಡಗಿ ಮೆಣಸಿನಕಾಯಿ) भारतदेशस्य कर्णाटकराज्ये वर्धमाना मरीचिकाविशेषः । कर्णाटकस्य हावेरीमण्डले विद्यमानायाः ब्याडगिनगर्याः नाम्नि इयं प्रसिद्धा वर्तते । [१] भारतदेशे विभिन्नमरीचिकानां वाणिज्ये अस्याः द्वितीयं स्थानं वर्तते । [२] अस्याः मरीचिकायाः निष्कासितम् ’ओलेरिसिन्’नामकं तैलं नखराग-ओष्ठरागयोः निर्माणार्थम् उपयुज्यते ।[३] ब्याडगि-मरीचिका गाढरक्तवर्णीया नाधिककटुयुक्ता च भवति या दक्षिणभारतीयपाके आधिक्येन उपयुज्यते । ब्याडगि-मरीचिकायाः भौगोलिकनिर्देशः २०११ तमस्य वर्षस्य फेब्रवरीमासे जातः । [४] Its GI tag is 144.[५]

ब्याडगि

ಬ್ಯಾಡಗಿ
नगरम्
देशः भारतम्
राज्यम् कर्णाटकम्
मण्डलम् हावेरी
Time zone UTC+05:30 (IST)
पत्रालयसूचीसङ्ख्या
581106
Vehicle registration KA 27
दूरवाणी 91-(0)8375
भाषितभाषा कन्नडभाषा
Website www.byadagitown.gov.in

लक्षणानि सम्पादयतु

सस्यस्य आरोपणस्य ४० दिनानाम् अनन्तरं ब्याडगिमरीचिकासस्येषु पुष्पाणि वर्धन्ते । अधिकांशेषु सस्येषु आरोपणस्य ६० तः ८० दिनेषु पुष्पाणि विकसितानि भवन्ति । मरीचिकानां फलोदयः जनवरीमासतः मेमासाभ्यन्तरे भविष्यति । [६] ब्याडगि-मरीचिकानां वार्षिकोत्पत्तिः २१,००० किलोपरिमिता भवति । [७] निष्कासनयोग्यस्य रक्तवर्णांशस्य आधारेण विविधमरीचिकाप्रभेदानां गुणस्तरः निर्धार्यते । वर्णस्य मापनं ASTA वर्णमापकेन क्रियते । ब्याडगि-मरीचिकायाः ASTA वर्णाङ्कनं भवति १५६.९ [७] ASTA वर्णाङ्कनस्य वर्धनानुसारं मरीचिकायाः गुणस्तरः वर्धते, तदनुगुणं तस्य मौल्यमपि वर्धते । ब्याडगि-मरीचिकासु केप्ससिन्-अंशः न्यूनः इत्यतः तस्य कटुत्वम् अन्यासां मरीचिकानाम् अपेक्षया न्यूनं विद्यते । [७]

उपयोगाः सम्पादयतु

पाकः सम्पादयतु

दक्षिणभारतीयपाकेषु ब्याडगिमरीचिकायाः उपयोगः आधिक्येन भवति । बिसिबेलेबात्, क्वथितम्, उपसेचनम् इत्यादीनां आहारपदार्थानां सज्जीकरणे अस्य उपयोगः भवति । अस्याः रक्तवर्णस्य कारणेन मांसाहारेषु अपि बहुधा उपयुज्यते ।[३] ब्याडगि-मरीचिकायाः चूर्णं निर्माय आहारोद्यमिभ्यः विक्रयणं कुर्वन्ति पञ्चविंशतिभ्यः अधिकाः उद्यमाः ।

आलियोरेसिन् सम्पादयतु

आदौ ब्याडगिमरीचिका आहारपदार्थेषु गन्धद्रव्यरूपेण उपयुज्यते स्म । अधुना तस्यां विद्यमानायाः 'आलियोरेसिन्'नामकस्य रक्ततैलस्य निमित्तमपि तस्याः वर्धनं क्रियते । आलियोरेसिन्-पदार्थस्य उपयोगः नखराग-ओष्ठरागयोः निर्माणे भवति । मरीचिकायाः रक्तवर्णस्य, गुणस्तरस्य च रक्षणाय ताः ४-६ डिग्रिपरिमिते न्यूनतापमाने रक्षणीयाः भवन्ति । तदा एव आलियोरेसिन्-निष्कासनं शक्यते । तन्निमित्तं ब्याडगिप्रदेशे शैत्यागाराणि निर्मितानि सन्ति । [३] शैत्यागारेषु स्थापिताभ्यः मरीचिकाभ्यः ३०-४०% परिमितस्य अधिकप्रमाणस्य आलियोरेसिन्-पदार्थं प्राप्तुं शक्यते । १०० किलोपरिमित-ब्याडगिमरीचिकाभ्यः ५० लीटर्-परिमितं रक्ततैलं प्राप्तुं शक्यते । ब्याडगिप्रदेशं परितः रक्ततैलोत्पाटनाय बहूनि उद्यमानि कार्यरतानि सन्ति । अत्र सङ्गृहीतं रक्ततैलम् इतः केरलं प्रति प्रेष्यते यत्र तस्य अग्रिमसंस्करणं भवैष्यति, ततः अमेरिका-जपानादि युरोप्-देशेभ्यः निर्यातः क्रियते । [३]

वाणिज्यम् सम्पादयतु

ब्याडगिमरीचिकाः ब्याडगि-मरीचिका-विपणिषु आधिक्येन विक्रीयन्ते । तासां वार्षिकवाणिज्यं त्रिशतकोटिरूप्यकपरिमितं ($ ७५ मिलियन्) भवति । योग्यमौल्येन सपदि निर्दोषमापनेन एतस्यां विपणौ मरीचिकाः उपलभ्यन्ते इत्यतः अत्र कर्णाटकस्य प्रतिवेशिनः आन्ध्रप्रदेशस्य च वाणिज्योद्यमिनः आधिक्येन आगमिष्यन्ति । सम्प्रति न्यूनमौल्ययुताः अधिकगन्धद्रव्ययुताः विविधाः मरीचिकाः विपण्याम् उपलभ्यन्ते इत्यतः व्याडगि-मरीचिकायाः वाणिज्ये व्यत्ययः दृश्यते । अनेन कारणेन अस्याः कृषकाः फलोदयस्य उत्तमलाभप्राप्तौ असमर्थाः जाताः सन्ति । [८]

टिप्पणी सम्पादयतु

  1. "Focus on entrepreneurship to boost rural development". Online Edition of The Hindu, dated 20 June 2007 (Chennai, India: The Hindu). 20 June 2007. Archived from the original on 1 October 2007. आह्रियत 26 July 2007. 
  2. "Spice players put blame on British customs". Online Edition of The Times of India, dated 21 February 2005 (Times Internet Ltd.). 21 February 2005. आह्रियत 26 July 2007. 
  3. ३.० ३.१ ३.२ ३.३ Lokeshvarappa N. "Red Hot Chilli Peppers". Online Edition of The Deccan Herald, dated 2007-06-19. The Printers (Mysore) Pvt. Ltd. Archived from the original on 21 June 2007. आह्रियत 26 July 2007. 
  4. "Scotch whisky, Karnataka's Byadgi Chilli get GI tag - The Times of India". The Times Of India. 16 February 2011. Archived from the original on 2013-01-03. आह्रियत 2016-01-28. 
  5. List of Geographical Indications in India
  6. "Know Your Ingredient". Online webpage of Sanjeev Kapoor. Archived from the original on 29 September 2007. आह्रियत 26 July 2007. 
  7. ७.० ७.१ ७.२ "KARVY Commodities Research" (PDF). Seasonal Report on Chilli, dated 28 April 2006. KARVY Comtrade Ltd. Archived from the original on 9 October 2007. आह्रियत 26 July 2007. 
  8. "Byadagi chilly not hot anymore". Online Edition of The Deccan Herald, dated 2005-06-19. The Mysore (Printers) Pvt. Ltd. Archived from the original on 29 September 2007. आह्रियत 26 July 2007. 
"https://sa.wikipedia.org/w/index.php?title=ब्याडगि-मरीचिका&oldid=485095" इत्यस्माद् प्रतिप्राप्तम्