भरणी

ज्योतिषशास्त्रे चन्द्रस्य द्वितीयस्थान:

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते भरणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् भरणी भवति द्वितीयं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

भरणीं दर्शयति मेषमानचित्रम्

आकृतिः सम्पादयतु

भरणी योनि त्रीणि - योनि-आकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि सम्पादयतु

ली लू ले लो - भरणीनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम् सम्पादयतु

लोकस्य राजा महतो महान् हि । सुगं नः पन्थानमभयं कृणोतु ।
यसिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यर्षिचन्त देवाः ।
तदस्य चित्रं हविषा यजाम ।

भरणीनक्षत्रस्य अधिपतिः यमः । वैदिकसाहित्ये यमः न्यायाधीशः, नियन्ता, संयमी, परमात्मा, वायुः, सूर्यपुत्रः वैवस्वतः इति च निर्दिष्टः अस्ति । तैत्तरीयब्राह्मणे एवं कथ्यते यत् यमः महान्, महत्सु महान् अस्ति । राजा अस्ति । अस्माकं मार्गं निरापदं करोति । अभयदाता अस्ति । तस्य प्रिया भरणी विश्वस्य भरणं करोति । अस्मिन् नक्षत्रे यमराजस्य राज्याभिषेकः कृतः । सः तस्मिन् नक्षत्रे आगमिष्यति । वयं भरणीनक्षत्रस्य उपासनां कुर्मः । ततः वयं कष्टेभ्यः पापेभ्यश्च मुक्ताः भवाम ।

आश्रिताः पदार्थाः सम्पादयतु

याम्येऽसृक्पिशितभुजः क्रूरा बधबन्धताडनासक्ताः ।
तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥

असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः । क्रूराः उग्राः । वधे मारणे बन्धे ताडने कुट्टने चासक्ताः रताः । तुषधान्यं शालयः । नीचजुलोद्भवा निकृष्टवंशजाताः । ये च सत्त्वेनौदार्येण विहीना रहिताः । एते सर्वं एव याम्ये भरण्याम् ।

स्वरूपम् सम्पादयतु

साहसदारुणशत्रुप्रशमननिक्षेपकूपकृष्याद्यम् ।
विषवधबन्धनदहनप्रहरणकार्याणि भरणीषु ॥

भरणीनक्षत्रे साहसकर्म, दारुणकर्म, शत्रुसंहारः, कूपखननम्, कृषिकर्म, विष-वध-बन्धन-अग्निस्थापनकार्याणि कर्तुं शक्यते ।

उग्रसंज्ञकनक्षत्राणि सम्पादयतु

उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥

अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह - पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।

पश्य सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भरणी&oldid=395650" इत्यस्माद् प्रतिप्राप्तम्