[१]

मधुराविजयमिति 1924 संस्करण

मधुराविजयमिति (Madhuravijayam) गङ्गादेवीविरचितं संस्कृतभाषायाः महाकाव्यम् । वीरकम्परायचरितमिति अन्यत् नाम एतस्य काव्यस्य । गङ्गादेवी चतुर्दशशतककवयित्री । सा विजयनगरराजस्य कम्पनाम्नः पत्न्यासीत् । एतस्य काव्यस्य स्वपत्युरेव चरिताणि वर्णयन्ते ।

कविः सम्पादयतु

आन्ध्रप्रदेशे १३०१ तमे वर्षे गङ्गदेव्या उत्पत्तिर्जाता । १३४३ तमे वर्षे कम्पराजस्तां परिणीतवान् । १४०० तमे वर्षे सा पञ्चत्वमगात् । इति विवद्भिरुच्यते [२] । मधुराविजयं पठित्वा गङ्गदेव्याः पण्डित्वं कवित्वं च साक्षात् दृश्यते [३] । उदाहारार्थं अस्त्रशास्त्रेषु सूक्ष्मा विद्या द्रष्टुं शक्यते [४] । अपि च सप्तमे सर्गे चन्द्रोदयादिवर्णनात् तस्याः काव्यकौशल्यः प्रकाशते ।

काव्यम् सम्पादयतु

मधुराविजयं तिरुवनन्तपुरे १९२५ तमे वर्ष एव प्राप्तम् । काव्यस्यैक एव हस्तलेखो लब्धोऽसीत् । इदानीं पर्यन्तं कोऽपि अन्यो मधुराविजयहस्तलेखो न विद्यते । अपि चैतस्मिन् हस्तलेखे कानिचित् पत्राणि भ्रष्टानि [५] । । न्यूनतमं ७० पद्यानि लुप्तानि ५८ च विकलीकृतान्यासन् [६] । अद्य काव्यं नवसर्गात्मकं वर्तते । पूर्वं कति सर्गाः श्लोकास्च वर्तन्ते स्म इति न ज्ञायते । काव्येऽस्मिन् कम्पराजस्य जननं, बालावस्था, परिणयश्च वर्णयन्ते । तस्यानन्तरं पितुर्बुक्कराजस्योपदेशमनुसृत्य कम्पराजस्तुण्डीरमण्डलभूमिपतिं चम्पराजमाक्रम्य नाशयति । ततः सो मधुरानगरवर्तिणस्तुलुष्कमहाराजस्य पराजयं सम्पादयति ।

मधुराविजयस्य पुस्तकानि सम्पादयतु

  1. हरिहरशास्त्री, जी श्रीनिवासशास्त्री, वी. च. । १९२४ । मधुराविजयं गङ्गादेव्या विरचितम् । द श्रीधरपावर्प्रेस्, तिरुवनन्तपुरम् । एतस्मिन् पुस्तके परिचयः संस्कृतमूलं च दीयेते । अन्यानि सर्वाणि पुस्तकानि एतत् तिरुवनन्तपुरपुस्तकमेवाधारीकरोति ।
  2. तिरुवेङ्कटाचारी, एस्. । १९५७ । गङ्गादेव्या मधुराविजयं । अन्नामलाई वश्वविद्यालयः, अन्नामलाई नगरम् । एतस्मिन् पुस्तके ऐतिहासिकपरिचय आङ्ग्लभाषानुवादश्चैतत् सर्वमन्तर्गतम् ।
  3. सुब्रह्मण्यशास्त्री, पी. । १९६९ । मधुराविजयम् (वीरकम्परायचरितम्) । तेनालिपत्तनम् । अस्मिन् पुस्तके विस्तरेण परिचयः संस्कृतव्याख्या च दीयेते ।
  4. मिश्र, एस् । २००१ । मधुराविजयमहाकाव्यम् । श्रीशारदा पब्लिकैशन्स्, पटना । एतत् पुस्तकं हिन्द्यनुवादसहितम् ।
  5. राजरामन्, एस्. कोटमराजु, वी. च. । २०१२ । द कोङ्क्वेस्त् आफ् मधुरा – गङ्गादेव्या मधुराविजयम् । रसाल, बेङ्गलूरु । एतस्मिन् पुस्तके संस्कृतमूलसहित आङ्ग्लभाषानुवादो वर्तते । केचन श्लोका एव दीयन्ते, सम्पूर्णं काव्यं न ।

[७][८]

आधाराः सम्पादयतु

  1. Devi, Ganga (1924). Sastri, G Harihara; Sastri, V Srinivasa, eds. Madhura Vijaya (or Virakamparaya Charita): An Historical Kavya. Trivandrum, British India: Sridhara Power Press. आह्रियत 21 June 2016. 
  2. सुब्रह्मण्यशास्त्री – पीठका
  3. तत्रैव
  4. मधराविजयम् ४.७० इत्यादि
  5. हरिहरशास्त्री – प्रस्तावना
  6. तिरुवेङ्कटाचारी – प्रस्तावना
  7. Aiyangar, Sakkottai Krishnaswami (1921). South India and her Muhammadan Invaders. Madras, British India: Humphrey Milford, Oxford University Press. p. 184. 
  8. Sastri, Kallidaikurichi Aiyah Aiyar Nilakanta (1958) [1955]. A History of South India: From Prehistoric Times to the Fall of Vijayanagar (Paperback ed.). Madras: Oxford University Press, Amen House, London. p. 241. 

ग्रन्थाः सम्पादयतु

  • हरिहरशास्त्री, जी श्रीनिवासशास्त्री, वी च । १९२४ । मधुराविजयं गङ्गादेव्या विरचितम् । द श्रीधरपावर्प्रेस्, तिरुवनन्तपुरम् ।
  • तिरुवेङ्कटाचारी, एस् । १९५७ । गङ्गादेव्या मधुराविजयं । अन्नामलाई वश्वविद्यालयः, अन्नामलाई नगरम् ।
  • सुब्रह्मण्यशास्त्री, पी । १९६९ । मधुराविजयम् (वीरकम्परायचरितम्) । तेनालिपत्तनम् । मिश्र, एस् । २००१ । मधुराविजयमहाकाव्यम् । श्रीशारदा पब्लिकैशन्स्, पटना ।
  • राजरामन्, एस् कोटमराजु, वी च । २०१२ । द कोङ्क्वेस्त् आफ् मधुरा – गङ्गादेव्या मधुराविजयम् । रसाल, बेङ्गलूरु ।

"https://sa.wikipedia.org/w/index.php?title=मधुराविजयम्&oldid=468420" इत्यस्माद् प्रतिप्राप्तम्