एतत् अपि क्षेत्रं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् । एतत् आन्ध्रप्रदेशस्य कर्नूलमण्डले श्रीशैलपर्वस्य उपरि अस्ति । एतत् क्षेत्रं "दक्षिणकाशी" इति उच्यते । एतत् क्षेत्रं कृष्णानद्याः तीरे अस्ति । कृष्णा अस्मिन् स्थाने "पातालगङ्गा" इति उच्यते । महाभारते, शिवपुराणे, पद्मपुराणे च अस्य क्षेत्रस्य वर्णनं कृतम् अस्ति । अत्रत्यः देवः "मल्लिकार्जुनः" । अस्य मल्लिकार्जुनस्य पूजया अश्वमेधयागस्य फलं प्राप्यते इति वदति महाभारतम् । श्रीशैलस्य दर्शनमात्रेण एव सर्वाणि कष्टानि परिहृतानि भवन्ति, जनन-मरणचक्रतः अपि मुक्तिः प्राप्यते इति विश्वासः अस्माकम् ।

"श्रीशैलशिखरं दृष्ट्वा...........

................पुनर्जन्म न विद्यते ।

दुःखं च दूरतो याति शुभमात्यन्तिकं लभते ।

जननीगर्भसम्भूतं कष्टं नाप्नोति वै पुनः ॥" इति श्लोकः एव वदति अस्य क्षेत्रस्य माहात्म्यम् ।

आन्ध्रप्रदेशस्य श्रीशैलपर्वते विद्यमानं मल्लिकार्जुनमन्दिरम्

पूर्वं श्रीशैलस्य उपत्यकायां चन्द्रगुप्तनामकः कश्चन राजा आसीत् । तस्य पुत्री चन्द्रावती पितुः विषये असमाधानेन गृहं परित्यज्य अगच्छत् । श्रीशैलशिखरे गोपालकैः सह फल मूलानि खादन्ती अवसत् । तस्याः धेनुः कदाचित् क्षीरदानम् एव अस्थगयत् । परीक्षणेन ज्ञातं यत् सा धेनुः स्वयमेव गत्वा शिवलिङ्गस्य उपरि क्षीरं स्रावयति इति । शिवः अपि स्वप्ने "तत्र शिवलिङ्गे अहम् अस्मि" इति ताम् असूचयत् । तदनन्तरं सा तत्र एकं शिवमन्दिरं निर्मितवती । प्रतिदिनं च शिवं मल्लिकापुष्पैः अपूजयत् । तस्मादेव कारणात् सः मल्लिकर्जुनः इति उच्यते । कदाचित् शिवः व्याधरूपेण तत्र आगतः "चेञ्चु"वंशस्य काञ्चित् अवृणोत् इति । तदारभ्य "चेञ्चु"जनाः तस्य मन्दिरस्य रक्षकाः वयमेव इति चिन्तयन्ति ।

मल्लिकार्जुनमन्दिरस्य पश्चिमभागे भ्रमराम्बिकायाः मन्दिरम् अस्ति । अत्र महाशिवरात्रिः महता वैभवेन आचर्यते । एतत् क्षेत्रं बौद्धानां पवित्रं क्षेत्रम् । बौद्धतत्त्वज्ञानी आर्यनागार्जुनः अस्मिन् क्षेत्रे तपः आचरत् इति । आर्यनागार्जुनः रसविद्यायाम्, आयुर्वेदे, मन्त्रशास्त्रे, ज्योतिष्ये च निपुणः आसीत् । राज्ञे भोजदेवाय बौद्धधर्मस्य दीक्षाम् अयच्छत् आर्यनागार्जुनः एव । अयम् आर्यनागार्जुनः नलन्दाविश्वविद्यालयस्य संस्थापकेषु अन्यतमः अपि ।

एतत् क्षेत्रं वीरशैवाणां पञ्चपीठेषु अन्यतमम् अस्ति । एतत् पण्डिताराध्यपीठम् इत्यपि उच्यते । अत्र वीरशैवजङ्गममठाः अपि सन्ति । मल्लिकार्जुनमन्दिरम् अत्यन्तं प्राचीनम् मन्दिरम् । एतत् मन्दिरं प्रति गन्तुं १४ शतके राजा वेमरेड्डी सोपानानि निरमापयत् । विजयनगरस्य राजा कृष्णदेवरायः अपि श्रीशैलक्षेत्रम् आगतवान् आसीत् । सः अत्र स्वर्णशिखरसहितं सभामण्डपम् अपि निरमापयत् । तदनन्तरं १५० वर्षाणाम् अनन्तरं हिन्दुसाम्राज्यसंस्थापकः महाराजः शिवाजिः अपि आगतवान् आसीत् एतत् क्षेत्रम् । सोऽपि अत्र एकां धर्मशालां निरमापयत् ।


"https://sa.wikipedia.org/w/index.php?title=मल्लिकार्जुनः&oldid=431977" इत्यस्माद् प्रतिप्राप्तम्