उमादेवी (मिथिला)

(मिथिला इत्यस्मात् पुनर्निर्दिष्टम्)


उमादेवी ( मिथिला ) मिथिलानामकम् एतत् स्थानं भारत-नेपालदेशयोः सीमायां जनकपुरम् इत्यत्र अस्ति ।नेपालदेशस्य धवलगिरिसमीपे पोखारा इत्यत्र अस्ति ।

सम्पर्कः सम्पादयतु

एतत् स्थानं जनकपुररेलनिस्थानकतः १ की.मी. दूरे अस्ति ।

वैशिष्ट्यम् सम्पादयतु

अत्र सोनामाय् देवस्थानम् अपि अस्ति ।अस्मिन् स्थाने देव्याः वामभुजः पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी उमा इति पूज्यते । अत्रत्यः शिवः महोदरनाम्ना पूज्यते । जनकपुरे जनकः राज्यभारं निर्वहति स्म इति प्रतीतिः अस्ति । जानकीमन्दिरम् एव शक्तिपीठम् इति अपि कश्चन वादः अस्ति । अपरः कश्चन वादः एवम् अस्ति । बिहारराज्यस्य मधुबनिमण्डलस्य उच्हित् अथवा उच्हैत् स्थानम् एव शक्तिपीठम्। एतत् स्थानं जनकपुरतः ३० की.मी.दूरे अस्ति उच्हैत् । समीपस्थं रेलनिस्थानकं बिहारस्य कमाटुल् इतः २४ की.मी. दूरे अस्ति । बिहारस्य दर्भङ्गातः अपि यानसौकर्यम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=उमादेवी_(मिथिला)&oldid=469564" इत्यस्माद् प्रतिप्राप्तम्