पुरी रथयात्रा

 रथयात्रा

अनुक्रमणिका  -

१.उत्सवः

२.विवरणम्

३.पावित्र्यं महत्त्वं च

४.रथाः

५.चन्दनजात्रा - श्रीगन्धकाष्ठलेपनस्य उत्सवः

६.अन्तराष्ट्रीयरथयात्रा

७.अवधानानि

८.उल्लेखाः

९.बाह्यश्रुङ्खलाः


उत्सवः  - रथयात्रोत्सवस्य दर्शनं सुयोगः एव । देवालयमिव भव्यैः सर्वालङ्कारैः रचिताः तिस्रः रथाः पुरीनगरस्य वीथीषु कर्षिताः भवन्ति । वर्षे एकवारं स्वामी जगन्नाथः, स्वामी बलरामः, सोदरी सुभद्रा च एते सर्वे  स्व मातृभगिन्याः मन्दिरं प्रति पर्यटनं कुर्वन्ति । तस्य पर्यटनस्य  स्मरणार्थम् एवं पद्धतिरस्ति । एतस्याः मातृभगिन्याः मन्दिरस्य नाम गुण्डिचा इति । गुण्डिचा मन्दिरम् एतेषां मन्दिरात् किलोमीटर् द्वयस्य दूरे अस्ति । प्रतिवर्षं नूतनरथाः निर्मिताः भवन्ति रथयात्रानिमित्तम् । देवालयस्य अन्तः एतस्मिन् रथोत्सवसमये एव सर्वेषां हिन्दूनां तथा विदेशीयानां कृते प्रवेशः कल्प्यते, यतो हि सर्वदा सर्वे जनाः मन्दिरं न प्रविशन्ति इति । उत्सवेsस्मिन् देवानां रथस्य आकर्षणं कुर्वन्ति । अतः देश-विदेशेभ्यः विविधाः भक्तजनाः अत्र आगत्य अर्चकाणां साहाय्येन श्रद्धापूर्वकैः रथस्य रज्जुं गृहीत्वा अग्रे कर्षन्ति । अयम् उत्सवः श्रद्धाभक्त्योः च सङ्केतः । जनानां सम्मर्दे सति भक्ताः स्वप्राणान् अपि निर्लक्ष्य रथोत्सवे भागं गृह्णन्ति । यथा रथः अग्रे अग्रे गच्छति तथा भक्ताः अपि स्वहस्तेषु वाद्यसाधनानि गृहीत्वा वादयन्तः भक्तिगीतानि गायन्तश्च चलन्ति । रथस्य गमनसमये मार्गस्य उभयोः पार्श्वयोः बालाः स्थित्वा गायकैः सह स्व-स्वध्वनिमपि सम्मेलयन्ति । रथः सामान्यतः ४५ उन्नते स्तरे (45 feet-14m) भवति । कार्यक्रमार्थम् आगताः सर्वे यात्रार्थिनः रथं कर्षयन्ति । अस्मिन् सन्दर्भे राष्ट्रिय - अन्तर्राष्ट्रीयवाहिन्यः साक्षात् प्रसारं प्रचारं च कुर्वन्ति ।

विवरणम् - स्वामी जगन्नाथस्य उत्सवोsयं ओडिस्साराज्यस्य  (उत्कलं) देवस्थानपत्तनमिति प्रसिद्धे पुरीनगरे प्रतिवर्षमपि रथयात्रा प्रचलति । इदं नगरं भारतस्य पूर्वतीरे स्थितमस्ति । आषाढमासस्य (चान्द्रमानपञ्चाङ्गरीत्याचतुर्थमासः) शुक्लपक्षस्य द्वितीये दिने एतं उत्सवं आचरन्ति । मुख्यदेवालयस्य अग्रपीठे विराजमानाः एताः जगन्नाथादि देवमूर्तयः दिव्यसुदर्शनचक्रेण सह देवालयस्य प्राकारात् बहिरानीय प्रत्येकं परम्परानुगतक्रमेण शोभायात्रायां तत् तत् रथे संस्थाप्यन्ते । वर्णालङ्कारैः रचिताः बृहत् रथान् सहस्रशः जनाः बडादण्ड इति मुख्यवीथ्या नयन्ति । बडादण्ड इति मुख्यवीथिः गुण्डीचा देवस्थानस्य मार्गः एव । इदं देवस्थानं किलोमीटर् द्वये (२) दूरे उत्तरदिशायामस्ति । गुण्डिचा देवालयस्य मार्गे मौसिमा इति देवालयः वर्तते । एते त्रयः देवाः गुण्डिचामन्दिरगमनमार्गे किञ्चित् कालं यावत् मौसिमादेवालयस्य समीपे विश्रान्तिं स्वीकर्तुं तिष्ठन्ति इति जनानां मनसि भावः वर्तते । अत्र दोसा (दोषा-तण्डुल-चणकपिष्टेन वा निर्मीयते) इति पोडपीथ इति विशेषभक्ष्यं पचन्ति । एतत् स्वामिनः (भगवतः) कृते बहु इष्टमिति तस्मै अर्पयन्ति । सप्त दिनानि यावत् अत्र् उषित्वा तदनन्तरं स्वस्थानं प्रति सर्वे देवाः प्रत्याग्च्छन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रथयात्रा&oldid=474718" इत्यस्माद् प्रतिप्राप्तम्