राष्ट्रियजनतादलम्

भारतस्य एकः राजकीय पक्षः
राष्ट्रियजनतादलम्
अध्यक्षः लालुप्रसाद यादव
निर्माणम् १९९७
विचारधारा सामाजिकसंरक्षणतावादः
धर्मनिरपेक्षतावादः
समाजतन्त्रवादः
मैत्रीकूटः चतुर्थमैत्रीकुटः
लोकसभासदस्यसंख्या
३ / ५४५
राज्यसभासदस्यसंख्या
२ / २४५
जालस्थानम्
www.rashtriyajanatadal.com

प्रसङ्गः सम्पादयतु

राष्ट्रियजनतादलम्(RJD) इति पक्षः भारतवर्षस्य एकः सुप्रसिद्धराजनैतिकपक्षः । बिहारराज्यकेन्द्रीकपक्षोऽयं लालुप्रसाद यादवमहोदयेन १९९७ तमे वर्षे संस्थापितः । राष्ट्रियजनतादलस्य मुस्लिम-यादवजनाः पारम्परिकगतजनाधारः । बिहारराज्यस्य राजनैतिकसक्रियजनाः मुस्लिम-यादवाः भवन्ति । तथा च एते निर्वाचनेषु मुख्यभूमिकापालनं कुर्वन्ति । भारतीयनिर्वाचनयोगेन २००८ तमे वर्षे पक्षोऽयं राष्ट्रस्तरीयपक्षः इत्यविधा प्राप्तवान् । परन्तु २०१० तमे वर्षे आयोगः अनुमोदनप्रत्याहारम्(राष्ट्रस्तरीयपक्षः इति) अकरोत् ।

विवरणम् सम्पादयतु

लालुप्रसाद यादव
लालुप्रसाद यादव
  • १९९७ तमवर्षस्य जुलै मासस्य पञ्चमदिनाङ्के राष्ट्रियजनतादलम्(आर् जे डि) इति पक्षस्य स्थापना अभूत् । समनता-समाजिकन्यायः स्थापना अस्य पक्षस्य मुख्योद्देश्यः अस्ति । साम्प्रदायिकशक्तेः विरोधं पक्षोऽयं करोति । लालु प्रसाद यादवमहोदयः सप्तदशलोकसभा-अष्टराज्यसभासदस्यैः सह समागतसहस्राधिकजनगणस्य पुरतः देहल्यां पृथक् राजनैतिकपक्षस्य घोषणाम् अकरोत् ।
  • नवगठितपक्ष्स्य नाम राष्ट्रियजनतादलमिति प्रतिष्ठापकेन(लालु प्रसाद यादव महोदयेन) समुत्घोषितमासीत् । पक्षस्य अध्यक्षः लालुप्रसाद यादव महोदयः निर्वाचितासीत् । राष्ट्रियजनतादलम् संयुक्तप्रगतिशीलमैत्रीकुटस्य अन्यतमसहयोगीपक्षः आसीत्(२००४-२००९) । तदानीं एव लालुप्रसाद यादव भारतवर्षस्य इतिहासे सफलतमरेलमन्त्री अभूत् ।
  • राष्ट्रियजनतादलम् धर्मनिरपेक्षता, सामाजिकन्यायः, सर्वेषां उन्नतिः इत्यादिषु विषयेषु सक्रियभूमिकाग्रहनं करोति । सम्प्रतिः पक्षेण "परिवर्तन समागमः"(रैली) इति नाम्ना एका परिकल्पना २०१४ लोकसभा तथा २०१५ बिहारविधानसभानिर्वाचनपरिप्रेक्षिते घोषिता अस्ति ।

निर्वाचनिपरिसंख्या सम्पादयतु

  • १९९८ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतादलस्य सप्तदशलोकसभासदस्याः बिहारराज्ये विविधलोकसभाकेन्द्रेषु विजीताः आसन् । किन्तु इतरराज्ये साफल्यता नासीत् । पक्षोऽयं भारतीयजनतापक्षविरोधी समाजवादीपक्षेण सह मैत्रीस्थापनाम् अकरोत् ।
  • १९९९ वर्षस्य लोकसभानिर्वाचने पक्षस्य साफल्यता नासीत् । अस्य दशलोकसभाकेन्द्राणि विरोधीपक्षागतानि अभवन् ।
  • २००० वर्षस्य बिहारविधानसभानिर्वाचने अस्य आशातीतसाफल्यम् अभवत् । तथा च विधानसभायां संख्यागरिष्ठपक्षः भूत्वा राज्यसर्वकारगठनम् अकरोत् ।
  • २००४ तमे वर्षे लोकसभानिर्वाचने २१ लोकसभाकेन्द्रेषु पक्षस्य विजयः अभवन् । अत्र पक्षः भारतीयराष्ट्रियकाङ्ग्रेसपक्षेण सह मैत्रीं कृत्वा प्रतिस्पर्धाम् अकरोत् ।
  • २००५ तमे वर्षे राज्यविधानसभानिर्वाचने परिणामं पक्षस्य प्रतिकूलम् आसीत् । साफल्यतायाः क्रमावनतिः असीत् । अस्मिन् निर्वाचने पक्षस्य २१ विधानसभासदस्याः विजयी अभवन् ।
  • २००९ तमे वर्षे साधारणलोकसभानिर्वाचने राष्ट्रियजनतादलम् अनिष्टकरपरिणामम् अलभत् । समग्रबिहारराज्ये ४ निर्वाचनिक्षेत्रेषु केवलं विजयः अभूत् ।

पक्षस्य सांसदाः सम्पादयतु

 
राजनैतिज्ञाः

लोकसभासदस्याः सम्पादयतु

राज्यसभासदस्याः सम्पादयतु

  • रामकृपाल यादव
  • प्रेमचन्द गुप्ता
  • राजनीतिप्रसाद
"https://sa.wikipedia.org/w/index.php?title=राष्ट्रियजनतादलम्&oldid=271946" इत्यस्माद् प्रतिप्राप्तम्