राष्ट्रियपुस्तकमण्डली


राष्ट्रियपुस्तकमण्डली (National Book Trust) काचित् पुस्तकप्रकाशनसंस्था भवति । देशस्य स्वातन्त्र्यानन्तरं देशनिर्माणकार्यं प्रचलति स्म । देशस्य प्रत्येकक्षेत्रे निर्माणकार्यं भवेत् इति नायकानाम् आशयः । अन्यविषयेषु शीघ्रं कार्यं भवति स्म । पुस्तकप्रकाशनं तु शैशवास्थायाम् एव आसीत् । समाजस्य सामान्यस्तरीयजनानां कृते पुस्तकानि केवलपुस्तकमेलायाम् एव दृग्गोचरीभूतानि । तत्र तानि दृष्ट्वा सन्तोषमनुभवन्ति स्म । तस्मिन् समये श्री पण्डितजवाहरलालनेहरुः यश्च भारतस्य तदानीन्तनप्रधानमन्त्री आसीत्, सः चिन्तितवान् यत् भारतस्य विविधसांस्कृतिकपारम्परिकज्ञानस्य अवगमनाय अधुनिकवैज्ञानिक-तान्त्रिकौद्योगिकविषयकक्षेत्रे यथा कार्यं प्रचलत् अस्ति तथैव अत्रापि कार्यं साधनीयम् इति । सः स्वयं लेखकः, पुस्तकप्रेमी च असीत् । स चिन्तितवान् अधिकारिणां मुष्टिं विना पुस्तकप्रकाशनं भवेत् इति तदनुगुणं, साहित्य-अकाडेमी, ललितकला अकाडेमी, राष्ट्रियपुस्तकमण्डली च स्थापिताः । अस्याः उद्घाटनं भारतस्य तदानीन्तनराष्ट्रपतिना कृतम्। तस्मिन् समये भाषमाणः नेहरुः पुस्तकानां प्रामुख्यम्, अस्याः मण्डल्याः कार्यशैलीविषये च अवदत् । तस्मिन् कार्यक्रमे डा.मौलाना अब्दुल् कलाम् आझाद् तथा श्रीजान्मथाय् उपस्थितौ आस्ताम् । एषा स्वायत्तमण्डली,शिक्षणमन्त्रालयस्य अधीने कार्यं करोति। अस्य मुख्यालयः नवदेहल्याम् अस्ति । सम्पूर्णधनं भारतसर्वकारेण दीयते । अस्याः विश्वस्तमण्डली तथा कार्यकारिणी समितिः च अस्ति ।

प्रमुखाः उद्देशाः सम्पादयतु

  • उत्तमसाहित्यसर्जनं, मितमौल्ययुतानि पुस्तकानि च ।
  • भाषान्तरं,भारतीयाभाषासु प्रकटनम् ।
  • भारतीयभाषाणाम् उत्कृष्टकृतीनां भाषान्तरम् ।
  • विदेशीयभाषातः भारतीयभाषां प्रति अनुवादः ।
  • अधुनिकज्ञानस्य विषये पुस्तकानां प्रकाशनम्, एतेन ज्ञानस्य प्रसारः भवेत् इति लक्ष्यम् ।
  • पुस्तकसूचिप्रकटनं, प्रचारः, गोष्ठी, प्रदर्शिनी इत्यादयः।
  • देशस्य विविधराज्येषु क्षेत्रीयपुस्तकमण्डल्याः संरचना ।

अस्याः ध्येयवाक्यम् “ एकः सूते सकलम् “

बाह्यानुबन्धः सम्पादयतु