लवङ्गम् भारते वर्धमानः कश्चन उपस्करविशेषः । इदम् सस्यजन्यः आहारपदार्थः । लवङ्गम् आङ्ग्लभाषायां Clove इति उच्यते । एतत् लवङ्गं भारतस्य सर्वेषु प्रदेशेषु अपि उपयुज्यते । मधुरभक्ष्याणां निर्माणे तेषां भक्ष्याणं सुगन्धवर्धनार्थं बहुधा उपयुज्यते लवङ्गम् । एतत् लवङ्गम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

Clove

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Myrtaceae
वंशः Syzygium
जातिः S. aromaticum
द्विपदनाम
Syzygium aromaticum
(L.) मेरिल् पेरिल् च (Merrill & Perry)
पर्यायपदानि
  • Caryophyllus aromaticus L.
  • Eugenia aromatica (L.) बैल्ल्(Baill.)
  • Eugenia caryophyllata थुन्ब्(Thunb.)
  • Eugenia caryophyllus स्प्रेरेङ्ग(Spreng.) बुल्लोक् हर्रिसन्(Bullock & S. G. Harrison)
शुष्कलवङ्गम्

अयं सामान्यतः ३०-४५ पादपरिमितम् उन्नतः भवति । अस्य काण्डभागे कोमलाः शाखाः भवन्ति । पर्णानि सुहरितवर्णानि भवन्ति । ३-६ अङुलपरिमितं दीर्घाणि इमानि पर्णानि अण्डाकाराणि भवन्ति । लवङ्गपुष्पस्य गन्धः सर्वपरिचितः । जलाक्तद्वीपप्रदेशेषु एते वृक्षाः विशेषतया वर्धन्ते इति कारणेन अस्य वारिजः इति अपरं नामधेयं वर्तते । मलया, सैलिकम्, सिङ्घपूरम्, सुमात्रा, जञ्जबार् , तिरुवाङ्कूर् इत्यादिषु प्रदेशेषु अयं अधिकतया वर्धते ।

लवङ्गे तैलांशः सम्पादयतु

लवङ्गतैलं प्रमुखतया त्रयः रासायनिकाशाः उपलभ्यन्ते । ते च १)Euchinin, Euchinon,(Wave stem oil) Carophyllene च । पुष्पस्य वृन्ते ५-८% लवङ्गतैलम् उपलभ्यते । पर्णे 4-5%, मूले ६% च तैलं लभ्यते ।

आयुर्वेदवैद्यकीय गुणाः सम्पादयतु

लवङ्गः वैद्यकीयदृष्ट्या महत्त्वभूतः अस्ति । अस्य लघुस्निग्धगुणाः कटुतिक्तरसाः च कटुविपाकत्वेन शीतवीर्ययुक्ताः च परिणमन्ते । अतः कफं पित्तं च शामयन्ति ।

 
लवङ्गसस्यं, पुष्पं, फलं चापि


“लवङ्गकुसुमं हृद्यं शीतलं पित्तनाशनम् ।
चक्षुष्यं विषहृद् वृष्यं माङ्गल्यं मूर्धरोगहृत् ॥“ (धन्वन्तरिकोषे चन्दनादिवर्गः)

उपयोगाः सम्पादयतु

जीर्णाङ्गानां समस्यानिवारकः सम्पादयतु

लवङ्गम् आहारे रुचिम् उत्पादयति । बुभुक्षाम् उद्वीपयति । भुक्तम् आहारं जीर्णयति । पिपासां, वमनम्, उदरभारं च दूरीकरोति ।

वेदनाहारकः सम्पादयतु

शूलं वा वेदनां व लवङ्गम् अनुक्षणं निवारयति । अतः दन्तवेदना, कण्ठवेदना,पृष्ठवेदना, सिरापरिवर्तनं (Sprain) इत्यादिषु इदं परिणामकारि विद्यते ।

श्वासरोगनिवारकः सम्पादयतु

कासः, अस्तमा, हिक्कः इत्यादीनां निवारणे लवङ्गं शास्त्रसिद्धम् औषधम् । क्षयरोगे अपि इदं परिणामकारि इति संशोधनेन ज्ञातम् अस्ति ।

लवङ्गस्य औषधानि सम्पादयतु

लवङ्गेन अनेकानि औषधानि निर्मीयन्ते । अधिकेषु औषधिषु अस्य परिमाणम् अल्पं भवति । लवङ्गदिमोदकं नामिका गुलिका अग्निमान्द्यं आम्लपित्तं, रक्तहीनता, कामला (Jaundice) अतिसारः इत्येतेषु परिणामकारिणी अस्ति । इयं गुलिका प्रजननशक्तिं बलं वर्ध्यति । एषा मुलिका पञ्चग्रैन्परिमाणेन सेवितुं शक्यते ।

लवङ्गादिचूर्णम् आधिक्येन उपयुज्यमानम् अन्यत् औषधम् । अस्य सेवनेन प्रमोहरोगाः, अर्श्रेरोगः, आमवातः, प्रदरः पीनसः च शाम्यति । इदं १५-३० ग्रैन्स् परिमाणेन सेवितुं शक्यते । अविपत्तिकरचूर्णः बभुक्षायाः उत्पादने वेदनानिवारणे च उपयुक्तम् । अजीर्णे सति १/२ चमसपरिमितस्य अविपत्तिकरचूर्णस्य सेवनं प्राचीनकालतः आचर्यमाणा पद्धतिः ।

लवङ्गस्य तैलं वेदनादीनां निवारणे उपयुज्यते । १-३ बिन्दुपरिमितं उपयोक्तुं शक्यते । एवं बहुविधैः औषधीयगुणैः युक्तः लवङ्गः / लवङ्गं न् केवलं देवानां प्रियः अपि तु मनुष्याणामति । अतः एव अनेकेषु मधुरभक्ष्यषु लवङ्गम् अद्यापि उपयुज्यते । इदं तेषां भक्ष्याणां जीर्णक्रियायां साहाय्यं करोति । अतः देवकुसुमम् अस्मभ्यं प्रकृत्या दत्तम् उत्कृष्टं पारितोषिकम् इति वक्तुं शक्यते ।

संक्षिप्तचिकित्सासूची सम्पादयतु

१. एतत् लवङ्गं हृदयस्य हितकरम् ।
 
गन्धद्रव्येषु लवङ्गम्
२. लवङ्गं पित्तं नाशयति, शिरसः सम्बद्धान् रोगान् परिहरति च ।
३. एतत् लवङ्गं नेत्रस्य कान्तिं वर्धयति ।
४. लवङ्गं विषहरं, मङ्गलप्रदं च ।
५. लवङ्गं मुखे संस्थाप्य चर्वणं कुर्वन्तः तस्य रसं पिबन्ति चेत् मुखं स्वच्छं भवति । आहारस्य रुचिः सम्यक् ज्ञातये । मुखम् अपि सुगन्धयुक्तं भवति ।
६. लवङ्गं, तक्कोलं, लामञ्चं, चन्दनं च योजयित्वा यत् चूर्णं निर्मीयते तत् चूर्णं लवङ्गादिचूर्णम् इति उच्यते । तस्य चूर्णस्य सेवनेन कासः, श्वासः (अस्तमा), ज्वरः, राजक्षयरोगादयः अपगच्छन्ति ।
७. लवङ्गं, मरीचं, ’तारेकायि’ इत्याख्यं फलं च योजयित्वा निर्मिता गुलिका “लवङ्गादिवटि” इति उच्यते । तासाम् अष्टानां गुलिकानां सेवनाभ्यन्तरे कासः अपगच्छति ।
८. लवङ्गं जले योजयित्वा सम्यक् क्वथयित्वा गुडं संस्थाप्य यत् निर्मीयते तत् ’लवङ्गनैर्यास्यम्’ इति उच्यते । तत् महिलानां कृते प्रसवानन्तरं दीयते । तस्य सेवनेन अग्निवृद्धिः भवति, वातस्य शमनं भवति, मलं, शरीरं च दृढं भवति ।
९. लवङ्गं, पिप्पली, लोध्रं, मरीचं च योजयित्वा कषायं निर्मीय, तस्य सन्धानं क्रियते यत् तत् “लवङ्गरसः” इति उच्यते । तस्य सेवनेन मूलव्याधिः निवार्यते । तस्य लवङ्गरसस्य सेवनेन अतिसारः, पाण्डुरोगः, कामला, क्रिमिदोषः च परिहृतः भवति ।
१०. लवङ्गस्य तैलं दन्तानां वेदनायाम् उपयुज्यते ।
११. लवङ्गस्य् तैलम् अग्निदीपकं, कफदोषहरं, गर्भावस्थायां जायमानस्य वमनस्य च उत्तमम् औषधम् । गर्भावस्थायां जायमानस्य वमनस्य निमित्तं लवङ्गतैलं १-२ बिन्दुं यावत् जीरिकाकषायेन सह दातव्यम् ।
“देवपुष्पोद्भवं तैलम् अग्निकृद् वातनाशनम् ।
दन्तवेष्टकफार्तिघ्नं गर्भिण्या वमनापहम् ॥“
"https://sa.wikipedia.org/w/index.php?title=लवङ्गम्&oldid=465643" इत्यस्माद् प्रतिप्राप्तम्