लातूरमण्डलं (मराठी: लातूर जिल्हा, आङ्ग्ल: latur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति लातूर इत्येतन्नगरम् । भूकम्प(१९९३)ग्रस्तप्रदेशः एवं कुप्रसिद्धिः जाता अस्य मण्डलस्य । ऐतिहासिकदृष्ट्याऽपि इदं मण्डलं समृद्धम् । मराठावाडाविभागे अत्रैव शिक्षणसुविधानां प्राचुर्यं दृश्यते । सहकारिक्षेत्रस्य विकासः अपि अत्र जातः । व्यापारिकेन्द्रत्वेन अपि लातूरनगरस्य विस्तारः जातः । कर्णाटकराज्यम् अस्य मण्डलस्य पूर्वदिशि एव अस्ति अतः मण्डलेऽस्मिन् कन्नडभाषया सह तत्प्रदेशसंस्कृतेः अपि प्रभावः दृश्यते ।

लातूरमण्डलम्

Latur District

लातूर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये लातूरमण्डलम्
महाराष्ट्रराज्ये लातूरमण्डलम्
देशः  India
जिल्हा लातूरमण्डलम्
उपमण्डलानि लातूर,
विस्तारः ७,१५७ च.कि.मी.
जनसङ्ख्या(२०११) २४,५५,५४३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://latur.gov.in
उद्गीर गडः
उद्गीर गडः
लातूरपरिसरे 'दर्गा'प्रार्थनास्थलम्
लातूरमण्डले अभवत् भूकम्पस्य किञ्चन छायाचित्रम्
खरोसा-लयनानि, औसा
सिद्धेश्वर-मन्दिरम्, लातूर

इतिहासः सम्पादयतु

महाराष्ट्रराज्यस्य प्रायः सम्पूर्णप्रदेशः पूर्वतनदण्डकारण्यम् आसीत् इति इतिहासकाराणाम् अभिप्रायः । अस्मिन् प्रदेशे सम्राट्-अशोकस्य आधिपत्यम् आसीत् । अनन्तरं सातवाहन-आधिपत्ये एषः प्रदेशः अतीव सम्पन्नः आसीत् इति कथ्यते । शक-चालुक्य-देवगिरिययादव-बहमनीवंशीयानां राज्ञाम् आधिपत्यम् अत्रासीत् । अनन्तरं निजाम-आधिपत्ये हैदराबाद-संस्थाने अयं प्रदेशः समाविष्टः । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा लातूरपरिसरः उस्मानाबादमण्डले समाविष्टः अभवत् । १९९९ तमे वर्षे प्रशासनसौकर्यार्थं लातूर इति विभिन्नं मण्डलं कृतं सर्वकारेण ।

भौगोलिकम् सम्पादयतु

लातूरमण्डलस्य विस्तारः ७,१५७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि बीडमण्डलम्, उत्तरदिशि नान्देडमण्डलं, परभणीमण्डलं च, दक्षिणदिशि उस्मानाबादमण्डलम् अस्ति । अस्मिन् मण्डले ८०२.४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् माञ्जरा, तेरणा, मन्याड, तावरजा, धरणी च प्रमुखनद्यः प्रवहन्ति ।

कृष्युत्पादनम् सम्पादयतु

अस्मिन् मण्डले उपजीविकारूपेण प्रमुखत्वेन कृषिः जनैः क्रियते । आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । यवनालः(ज्वारी) अस्य मण्डलस्य प्रमुखकृष्युत्पादनम् अस्ति । यवनालस्य(ज्वारी) उत्पादनम् आसंवत्सरं प्रचलति । तथा 'खरीप'-ऋतौ कार्पासः, मुद्गः, 'तूर', तण्डुलः, कलायः च सस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, कुसुम्भं(करडई), शमा(जवस) इत्यादीनि सस्योत्पादनानि उत्पाद्यन्ते ।

जनसङ्ख्या सम्पादयतु

लातूरमण्डलस्य जनसङ्ख्या(२०११) २४,५५,५४३ अस्ति । अत्र ५२% पुरुषाः ४८% महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३४३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७९.०३% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • लातूर
  • उदगीर
  • अहमदपूर
  • देवणी
  • शिरूर
  • औसा
  • निलङ्गा
  • रेणापूर
  • चाकूर

लातूर भूकम्पः(१९९३) सम्पादयतु

३० सप्टेम्बर् १९९३ दिनाङ्के लातूरमण्डले भूकम्पः अभवत् । 'रिक्टर् स्केल' अनुसारं ६.३ अस्य कम्पस्य प्रमाणमासीत् परम् अत्र प्रायः मृतानां सङ्ख्या ३०,००० आसीत् । एवं कथ्यते यत् अत्र स्थापितानां गृहाणां स्थापत्यं सम्यक् नासीत्, यतो हि भूकम्पस्य कम्पनान् सोढुं तानि न अशक्नुवन् । अतः एतावती हानिः जाता । एतस्य परिणामाः लातूर, बीड, उस्मानाबाद इत्येतेषु मण्डलेषु अदृश्यन्त । सम्पूर्णे मराठवाडाविभागे अस्य भूकम्पस्य परिणामाः अनुभूताः ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • अष्टविनायकमन्दिरम्, लातूर
  • उदगीर-दुर्गः, उदगीर
  • औसा-दुर्गः, औसा
  • खरोसा-लयनानि, औसा
  • गञ्ज गोलाई, लातूर
  • नागनाथमन्दिरम्, वडवल
  • वनस्पती-बेट, वडवल (ना.)
  • विराट-हनुमान्, लातूर
  • शिवमन्दिरम्, निलङ्गा
  • साई-नन्दनवन, चाकूर
  • सिद्धेश्वरमन्दिरम्, लातूर
  • हकानी बाबा, लातूर रोड
  • हत्त-बेट
  • जामा-मस्जिद्
  • वीरनाथ-मल्लिनाथ-महाराज-मठः, औसा
  • अम्बाबाईमन्दिरम्, देवनळा
  • रेणुकादेवी-मन्दिरम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=लातूरमण्डलम्&oldid=464010" इत्यस्माद् प्रतिप्राप्तम्