परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

आकरोल्लेखः सम्पादयतु

विकिपीडियायां विषययोजनावसरे आकरोल्लेखः अवश्यं करणीयः । जागरूकतया प्रमाणपुरस्सरं लिख्यताम् । अपि च भवता निर्दिष्टः प्रत्येकोऽपि आकरः विश्वासार्हः स्यात् । एवञ्च वाचकः स्वयं मूलं दृष्ट्वा उक्तस्य विषयस्य प्रामाण्यं ज्ञातुं शक्नुयात् । टिप्पणीभिः मूलनिर्देशः उचितः यतः वाचकः आकरं दृष्ट्वा विषयस्य प्रामाण्यं स्वयमेव निश्चिनुयात् ।

टिप्पणी सम्पादयतु

विकिपीडियालेखेषु अधः टिपण्यः एवं योजयितुं शक्याः - <ref>भवता निर्दिश्यमानः आकरः </ref>

  • इदम्प्रथमतया भवता टिप्पणी योज्यमाना अस्ति चेत् अवश्यं जानातु यत् विकिपीडियायाम् एतस्याः प्रदर्शनाय कश्चन तन्त्रांशः उपयुज्यते यश्च अनेन पाठ्यांशेन निर्दिश्यते -
{{उद्धरणावलिः}} अथवा <references/>।
अयं पाठ्यांशः ({{उद्धरणावलिः}} )==आकराः== इत्येतस्याः उपशीर्षिकायाः अधः एव भवेत् । इयम् उपशीर्षिका न विद्यते चेत् सा अवश्यं योजनीया । अयं नूतनः भागः लेखस्य अधः 'बाह्यसम्पर्कतन्तवः'
इत्येतस्य भागस्य (यदि विद्यते) उपरि भवेत् ।
  • भवदीयं सम्पादनं रक्षितं यदा भवति तदा उद्धृतः अंशः (एवं लेखशरीरे लिखितः[1]), टिप्पणीरूपं प्राप्य पृष्ठस्य अधोभागे आकरविभागे योजितः भवति ।
टिप्पण्यां भवता निर्दिश्यमानं मूलं बाह्यजालपुटस्य सम्पर्कतन्तुः यदि स्यात् तर्हि सः जालपुटसङ्केतः एकेन समकोणावरणेन युक्तः स्यात् । तेन वाचकः तं सम्पर्कं प्राप्तुम् अर्हति । उदा -
<ref> [http://www.jagadgururambhadracharya.org जगद्गुरुरामभद्राचार्यस्यौपचारिकजालपृष्ठानि]</ref>
  • अधः टिप्पण्याम् अविद्यमानाः अपि विषयाः अत्र सङ्गृह्यन्ते चेत् वरमेव । उदा -
<ref>लेखकस्य नाम, [http://www.nytimes.com/2004/05/22/world/in-india-s-spotlight-he-was-both-director-and-audience.html?ref=atal_bihari_vajpayee In India's Spotlight, He Was Both Director and Audience - NYTimes], ''दि न्यूयार्क् टैम्स्'', दिनाङ्कः</ref>
  • विवरणसहितः सार्वसङ्केतः (IP address) बाह्यसम्पर्कतन्तौ भवेत् यतः सः जालः निष्क्रियः भवति चेत् तत्र दत्तानां विवरणद्वारा पुटम् अन्वेष्टुं शक्यते इति ।
बाह्यान्तर्जाले विद्यमानः विषयः सामान्यतया प्रमाणत्वेन यद्यपि गृह्यते, तथापि विकिपीडियाव्यवस्थायाम् अन्तर्जालाकराः उत्तमाः इति न परिगण्यन्ते । पुस्तकं, पत्रिका, दिनपत्रिकालेखः, शोधपत्रम् इत्यादयः यदि भवतः आकराः तर्हि तान् उल्लेखावल्यां योजयतु ।

बाह्यसम्पर्कतन्तुविभागः सम्पादयतु

बहुषु विकिपीडियालेखेषु बाह्यसम्पर्कतन्तवः इति कश्चन विभागः भवति । अस्मिन् सूचितानि जालपुटानि लेखस्य विषये अधिकं विश्वासार्हं विवरणं यच्छन्ति । अत्र योग्यानि उत्कृष्टानि कानिचन एव भवेयुः । भवान् अननुभवी सम्पादकः चेत् नूतनस्य बाह्यसम्पर्कतन्तोः योजनात् पूर्वं लेखस्य सम्भाषणपृष्ठे लिख्यताम् ।

नूतनस्य बाह्यसम्पर्कतन्तोः योजनाय सङ्केतं विलिख्य एकेन समकोणावरणेन योज्यताम् । ततः अग्रे अवकाशं प्रदाय दर्शनयोग्यः पाठ्यांशः लिख्यताम् । उदा -

[http://www.example.com/ अधिकृतं जालपुटम्]

अस्य दर्शनम् एवं भवति -

अधिकृतं जालपुटम्


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्