विश्रवाः पुलस्तेः पुत्रः, अगस्त्यमुनेः भ्राता, सृष्टिकर्तुः ब्रह्मणः पौत्रः आसीत्। भारतस्य इतिहासे रामायणे ज्ञायते यत् एषः प्रबलः इति। महान् पण्डितः सन् सः तपसा सामर्थ्यं प्राप्तवान्। एतेन कारणेन सः ऋषिषु प्रसिद्धः जातः।भरद्वाजः तस्य पुत्रीं इडविडां विश्रवसा सह विवाहम् अकारयत्। इडविडविश्रवसोः पुत्रः धनाधिपतिः कुबेरः लङ्कानगर्याः राजा आसीत्।[१]

विश्रवाः
व्यक्तिगतविवरणम्
पतिः/पत्नी इडविडा
कैकसी
अपत्यानि कुबेरः, रावणः, कुम्भकर्णः, विभीषणः (पुत्राः)
शूर्पणखा (पुत्री)
पितरौ

विश्रवसोः योगप्रभावस्य विषयः राक्षसस्य सुमालेः अपि च तस्य पत्न्याः केतुमत्याः कर्णयोः अपतत्। तौ द्वावपि राजभिः ऋषिभिः सह मैत्रीं कृत्वा शक्तिं वर्धयितुं विचिन्त्य ​तयोः पुत्रीं कैकसीं विश्रवसा सह परिणेतुम् अवसरं कल्पितवन्तौ। विश्रवाः सुन्दर्याः कैकस्याः मोहपाशे बद्धः सन् चतुर्णां पुत्राणां जनकः जातः। तेषु पुत्रेषु ज्येष्ठः रावणः कुबेरं लङ्कानगर्याः निष्कास्य राजा अभवत्। अपि च रावणः रामायणे प्रतिवीरः।[उद्धरणं वाञ्छितम्]

वैश्रवाः रावणविभीषणकुम्भकर्णशूर्पणख्याः जनकः आसीत्। यदा रावणः कुबेरं राज्यात् निष्कासितवान् तस्य दुर्बुद्धिं दृष्ट्वा विश्रवाः राक्षसपरिवारं त्यक्त्वा प्रथमपत्न्याः इडविडायाः समीपे गतवानिति कथा वर्तते।

टिप्पणी सम्पादयतु

  1. Encyclopedia for Epics of Ancient India Quote: VISRAVAS. [Source: Dowson's Classical Dictionary of Hindu Mythology] Son of Prajapati Pulastya, or, according to a statement of the Mahabharata, a reproduction of half Pulastya himself. By a Brahmani wife, daughter of the sage Bharadwaja, named Idavida or Ilavida, he had a son, Kuvera, the god of wealth.
"https://sa.wikipedia.org/w/index.php?title=विश्रवाः&oldid=470875" इत्यस्माद् प्रतिप्राप्तम्