अयम् अपि भारते सज्जीक्रियमाणः सस्यजन्यः आहारपदार्थः । एतां शर्कराम् आङ्ग्लभाषायां Gravel Sugar अथवा Cristal Sugar इति वदन्ति । अस्याः वैज्ञानिकं नाम अस्ति Saccharum officinarium इति । खण्डशर्करायाः चूर्णीकृतं रूपम् एव शर्करा । अतः एव शर्करा “सिता” इति अपि उच्यते । शर्कराम् इक्षुदण्डतः उत्पादयन्ति । भारतीयानां पाकशालायां तु शर्करा सर्वदा भवति एव । चायं, काफी, फलरसः इत्यादीनां पानीयानां निर्माणे शर्करा अधिकतया उपयुज्यते । एतद्विना अपि मधुरभक्ष्याणां निर्माणे अपि महता प्रमाणेन उपयुज्यते शर्करा । मधुमेहरोगेण पीडिताः केवलम् अस्याः शर्करायाः उपयोगं न कुर्वन्ति ।

आयुर्वेदस्य अनुसारम् अस्याः शर्करायाः स्वभावः सम्पादयतु

 
विभिन्नानां वर्णानां शर्करा

शर्करा मधुररुचियुक्ता, श्वेतवर्णीया च । वातं पित्तं च शमयति शर्करा । दाहशमनम् अपि करोति । सुशीतला इति कारणेन शुक्रवृद्धिं करोति ।

“खण्डस्तु सिकतारूपं सुश्वेतं शर्करा सिता ।
सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत् ।।
मूर्छछर्दिज्वरान् हन्ति सिशीतशुक्रकारिणी ॥“ (भावप्रकाशः)
 
शर्करानिर्माणार्थं सङ्गृहीताः इक्षुदण्डाः
१. शर्करायोजितं निम्बूकपानीयं दाहे, ज्वरे, आम्लपित्तादिषु रोगेषु हितकरम् ।
२. छर्दिरोगस्य निमित्तम् अपि (प्रयाणसमये जायमानं वमनम्) शर्करा हितकरी । मुखे शर्करां संस्थाप्य तेन उत्पद्यमानं जलं गिलनीयम् ।
३. शर्करां क्षीरे योजयित्वा रात्रौ शयनात् पूर्वं पीतं चेत् शुक्रवृद्धिः भवति, सुखनिद्रा अपि प्राप्यते ।
४. शर्करा मधुररसयुक्ता इति कारणात् सा देहस्य पुष्टिकरी, प्राणकरी, बलकरी च ।
५. शर्करा वातं पित्तं च शमयति ।
६. शर्करा दाहं शमयति । अतः मूर्छायां ज्वरबाधायां जानुवेदनायां च उपयोक्तुं शक्यते ।
७. शुभ्रश्वेतवर्णीया शर्करा अत्यन्तं रुचिकरी, रुचिवर्धिका अपि ।
८. कफप्रकोपस्य काले तन्नाम वसन्तऋतौ, शिशिरऋतौ च शर्करा न उपयोक्तव्या ।
९. कफजेषु रोगेषु, कफप्रकृतियुक्ताः च शर्करायाः उपयोगं न कुर्युः ।
१०. मधुमेहरोगे, स्थौल्यसमस्यायाम्, अग्निदौर्बल्ये, आमावस्थायां च शर्करायाः उपयोगः न करणीयः ।
११. यद्यपि शर्करा अत्यन्तं रुचिकरी तथापि कुत्रचित् श्वेतविषम् (White Poison) इति वदन्ति । अतः मितप्रमाणेन उपयोगः हितकरः ।
"https://sa.wikipedia.org/w/index.php?title=शर्करा&oldid=301549" इत्यस्माद् प्रतिप्राप्तम्