श्येनः

महत् पिशिताशपक्षि:

श्येनः कश्चन महापक्षी। श्येनस्य ७४ प्रभेदाः वर्तन्ते इति जीवविज्ञानिनः वदन्ति।

प्रकृतिः सम्पादयतु

 
नीडात् पतितः श्येनशावकः।

श्येनः आकारेण महान् भवति। सः मांसं खादति। मांसखादने तस्य चञ्चूः, पादनखाश्च अनुकूलाः भवन्ति। अन्यपक्षिणां चञ्च्वाः अपेक्षया श्येनस्य चञ्चूः भारयुता बलिष्ठा च भवति। प्रायेण श्येनः कृष्णवर्णीयः भवति। श्येनः आकाशे उपरिभागे एव डयते। तस्य नेत्रं तीक्ष्णं भवति। मारिषस्य श्येनस्य नेत्रस्य प्रमाणं मानवनेत्रस्य प्रमाणात् द्विगुणितं वर्तते। श्येनस्य दर्शनशक्तिः मानवस्यापेक्षया चतुर्गुणिता भवति।.[१] पुंश्येनस्य अपेक्षया स्त्रीश्येन आकारेण महान् भवति।[२][३] महावृक्षेषु बहु उपरिभागे श्येनाः नीडं रचयन्ति। प्रायेण श्येनः अण्डद्वयं सृजति। परन्तु प्रथमतया जातः शिशुः अपरम् अण्डं नाशयति। एवं प्रथमशिशुः प्रायेण स्त्री एव भवति, यश्च आकारेण महान् भवति।[४][५] स्टेल्लर् समुद्रश्येनः प्रायेण ९ के.जि भारयुतः भवति। एषः श्येनेषुः भारतमः।[६] न्यूनभारयुतः श्येनो नाम सौत् निकोबार् सर्पेण्ट् श्येनः। सः 450 ग्रां परिमितः भवति।[७]

प्रभेदाः सम्पादयतु

 
डयानः श्येनः

मुख्यरूपेण श्येनानां चत्वारः प्रभेदाः प्रसिद्धाः। मीनश्येनाः, लघुपादश्येनाः, सर्पश्येनाः महारण्यश्येनाः चेति। मीनश्येनाः महाश्येनाः। उत्तरअमेरिकादेशे प्रायेण समुपलभ्यन्ते। एते समुद्रजीविनः भुक्त्वा जीवन्ति।[८] लघुपादश्येनाः सर्वत्र वसन्ति।[९]सर्पश्येनाः सर्पं भुञ्जते। एते आफ्रिकाखण्डे एशियाखण्डस्य दक्षिणभागे च वसन्ति।[१०] महारण्यश्येनाः अमेरिकाखण्डस्य अरण्येषु भवन्ति।[११]

सांस्कृतिकं महत्त्वम् सम्पादयतु

 
विष्णोः वाहनम् (अत्र श्येनस्य चञ्चूः पक्षौ च विद्येते।)

प्रायेण सर्वेषां देशानां संस्कृतिषु श्येनपक्षी विशिष्टं स्थानम् आवहति। विष्णोः वाहनं गरुडः श्येनस्य चञ्चूं पक्षौ च धरति इति कथा प्रसिद्धा। एटाना इति राजानां कश्चन श्येनः स्वर्गं नीतवान् इति ग्रीक् देशीयकथायां वर्णितं वर्तते।[१२]श्येनः साक्षात् सूर्यं द्रष्टुं शक्नोति इति लुकान् इत्यस्य पिल्ली इत्यस्य च मध्यकालीन लेखकयोरभिप्रायः।[१३]केनडादेशे श्येनस्य आखेटकं निषिद्धं वर्तते।[१४]

उल्लेखाः सम्पादयतु

  1. Shlaer, Robert (1972). "An Eagle's Eye: Quality of the Retinal Image". Science 176 (4037): 920–922. PMID 5033635. doi:10.1126/science.176.4037.920. Archived from the original on 30 November 2012. आह्रियत 16 April 2012.  Unknown parameter |df= ignored (help)
  2. Leclerc, Georges; Louis, Comte de Buffon (2010). The Natural History of Birds: From the French of the Count de Buffon; Illustrated with Engravings, and a Preface, Notes, and Additions, by the Translator. Cambridge University Press. pp. 60–. ISBN 978-1-108-02298-9. Archived from the original on 29 April 2016.  Unknown parameter |df= ignored (help)
  3. Grambo, Rebecca L. (2003). Eagles. Voyageur Press. ISBN 978-0-89658-363-4. Archived from the original on 30 April 2016.  Unknown parameter |df= ignored (help)
  4. Grambo, Rebecca L (2003). Eagles. Voyageur Press. p. 32. ISBN 978-0-89658-363-4. 
  5. Stinson, Christopher H (1979). "On the Selective Advantage of Fratricide in Raptors". Evolution 33 (4): 1219–1225. JSTOR 2407480. doi:10.2307/2407480. 
  6. Ferguson-Lees, James; Christie, David A. (2001). Raptors of the World. illustrated by Kim Franklin, David Mead, and Philip Burton. London, UK: Christopher Helm. pp. 406–08. ISBN 0-7136-8026-1. 
  7. "Amazing Bird Records". Trails.com. Archived from the original on 20 June 2017. आह्रियत 20 July 2012.  Unknown parameter |df= ignored (help)
  8. https://en.wikipedia.org/wiki/Sea_eagle
  9. https://en.wikipedia.org/wiki/Booted_eagles
  10. https://en.wikipedia.org/wiki/Circaetinae
  11. https://en.wikipedia.org/wiki/Harpy_eagle
  12. Horowitz, Wayne (1998). Mesopotamian Cosmic Geography. Winona Lake, Indiana: Eisenbrauns. pp. 43–59. ISBN 0-931464-99-4. Archived from the original on 6 December 2017.  Unknown parameter |df= ignored (help)
  13. Badke, David. The Medieval Bestiary
  14. Sin, Lena (30 April 2006). "Charges laid in eagle-poaching case". The Province (CanWest MediaWorks Publications Inc.). Archived from the original on 31 May 2009. आह्रियत 20 November 2007.  Unknown parameter |df= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=श्येनः&oldid=443677" इत्यस्माद् प्रतिप्राप्तम्