श्रेयांसनाथः( /ˈʃrɛjɑːnsənɑːθəhə/) (हिन्दी: श्रेयांसनाथ,आङ्ग्ल: Shreyansnath) जैनधर्मस्य चतुर्विंशतिः तीर्थङ्करेषु एकादशः तीर्थङ्करः अस्ति । भगवतः श्रेयांसनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं करियादः (Hippopotamus) अस्ति ।

श्रेयांसनाथः
एकादशः जैनतीर्थङ्करः
श्रेयांसनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२१२ वर्षाणि पूर्वम्
परिवारः
पिता विष्णुः
माता विष्णुदेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म सिंहपुर
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् करियादः
औन्नत्यम् ८० धनुर्मात्रात्मकम् (२४० मीटर्)
आयुः ८४,००,००० वर्षाणि
शासकदेवः
यक्षः यक्षराजः
यक्षिणी मानवी
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां श्रेयांसनाथस्य शरीरस्य औन्नत्यम् अशीतिः (८०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “यक्षराज” इत्याख्यः यक्षः, “मानवी” इत्याख्या शासनदेवी च आसीत् ।

जन्म, परिवारश्च सम्पादयतु

आर्यजनपदः सिंहपुरे नगरे माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे मध्यरात्रौ भगवतः श्रेयांसनाथस्य जन्म अभवत् ।

श्रेयांसनाथस्य पितुः नाम विष्णुदेवः, मातुः नाम विष्णुदेवी च आसीत् । विष्णुदेवः सिंहपुरस्य राजा आसीत् । विष्णुदेवः एकः श्रेष्ठः राजा आसीत् । तस्य शासनकाले जनाः सुखेन जीवन्ति स्म । एकदा वैशाख-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ श्रवणनक्षत्रे रात्रौ विष्णुदेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।

आगामिदिवसे राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।

नवमासानन्तरं भगवतः श्रेयांसनाथस्य जन्म अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं यच्छति स्म । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्म सम्पादयतु

अर्धपुष्करद्वीपस्य पूर्वमहाविदेहस्य कच्छविजये क्षेमा-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा नलिनीगुल्म आसीत् । भगवान् श्रेयांसनाथः पूर्वजन्मनि नलिनीगुल्म आसीत् । नलिनीगुल्म सर्वदा चिन्ताग्रस्तः एव भवति स्म । राजवैभवे प्राप्ते सत्यपि सः अहोरात्रं चिन्तामग्नः आसीत् । सः विचारयति स्म यत् – “इदानीं सर्वस्वं वर्तते, किन्तु अनन्तरं किं भविष्यति” इति ।

अनया चिन्तया राजा नलिनीगुल्म सर्वं त्यक्त्वा दीक्षितः भवितुम् ऐच्छत् । तेन वज्रदन्तमुनेः दीक्षा स्वीकृता । अनन्तरं सः घोरतपस्यां चकार । अन्ते तीर्थङ्करगोत्रस्य बन्धनं कृत्वा सः मोक्षं प्रापत् ।

नामकरणम् सम्पादयतु

भगवतः श्रेयांसनाथस्य जन्मनः एकादशदिनानि अनन्तरं राज्ञा विष्णुदेवेन नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवम् अपि आचरितम् आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्रैः, लोकान्तिकदेवैः चापि उत्सवः आचरितः आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । विष्णुदेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरं दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालस्य आरम्भादेव राज्ये श्रेयस्कराणि कार्याणि जातानि । राजवंशाय अपि नवमासाः श्रेयस्कराः अभवन् । जनेभ्यः अपि सर्वत्र मङ्लमयं वातावरणम् आसीत् । अतः अस्य बालकस्य नाम श्रेयांसकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव श्रेयांसनाथः इति नाम्ना ख्यातः अस्ति ।

विवाहः सम्पादयतु

श्रेयांसनाथः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । श्रेयांसनाथस्य मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति एव ।

विष्णुदेव्या श्रेष्ठतया श्रेयांसनाथस्य पालनं कृतम् । समयान्तरे भगवतः श्रेयांसनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । युवावस्थायाम् आगतायां राजा विष्णुदेवः राजकन्याभिः सह श्रेयांसनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः विष्णुदेवस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन श्रेयांसनाथस्य राज्याभिषेकः कृतः, श्रेयांसनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं विष्णुदेवः दीक्षां स्व्यकरोत् ।

राज्यम् सम्पादयतु

श्रेयांसनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । यथा माता बालकस्य पालनं करोति, तथैव तेन अपि राज्यस्य सत्यनिष्ठया पालनं कृतम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन श्रेयांसनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वरीत्या एव निवारयन्ति स्म ।

प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा श्रेयांसनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजाः सुखेन जीवनम् अकुर्वन् ।

राजत्यागः, दीक्षा च सम्पादयतु

भगवता श्रेयांसनाथेन द्विचत्वारिंशत्वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान् आसीत्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् । तस्य मनसि वैराग्यस्य भावना आविर्भूता । अतः सः विरक्तः जातः ।

ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता श्रेयांसनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यतः राज्ञः स्वभावः शान्तः, तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ श्रवण-नक्षत्रे भगवान् श्रेयांसनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता श्रेयांसनाथेन दीक्षा स्वीकृता ।

दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता श्रेयांसनाथेन राज्ञः नन्दस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं मासद्वयं यावत् भगवान् श्रेयांसनाथः रहसि आसीत् । भगवता श्रेयांसनाथेन मासद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।

सिंहपुरे माघ-मासस्य कृष्णपक्षस्य अमावस्यायां तिथौ श्रवण-नक्षत्रे तस्मै केवलज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

ततः परं भगवता श्रेयांसनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः श्रेयांसनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।

आर्यजनपदि प्रभावः सम्पादयतु

आर्यजनपदि भगवतः श्रेयांसनाथस्य प्रभावः अभूतपूर्वः आसीत् । जनपदः धनिकानां, निर्धनानां, तत्कालीनानां राज्ञां च मनसि भगवान् श्रेयांसनाथः आस्थायाः केन्द्रम् आसीत् ।

एकदा भगवान् श्रेयांसनाथः विचरन् पोतनपुरं प्राप्तवान् । पोतनपुरे कस्मिंश्चित् उद्याने श्रेयांसनाथः निवसति स्म । पोतनपुरस्य राजा त्रिपृष्ठः आसीत् । कश्चन राजपुरुषः श्रेयांसनाथस्य आगमनसमाचारं त्रिपृष्ठाय प्रदातुं गतवान् । राजा त्रिपृष्ठः आगमनसमाचारं प्राप्य आनन्दितः जातः । तस्य प्रसन्नतायाः सीमा एव नासीत् । राज्ञा सन्देशवाहकाय सार्धद्वादशकोटिः स्वर्णमुद्राः प्रदत्ताः [३]। अनन्तरं तत्कालमेव सः स्वस्य ज्येष्ठबन्धुना अचलेन सह श्रेयांसनाथस्य दर्शनं कर्तुं गतवान् आसीत् । राज्यस्य सर्वे अधिकारिणः, सर्वे जनाः च भगवन्तं मेलितुम् उत्साहेन गच्छन्ति स्म ।

धार्मिकः परिवारः सम्पादयतु

यदा भगवान् श्रेयांसनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा श्रेयांसनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ७६ गणधराः
  2. ६,५०० केवलज्ञानिनः
  3. ६,००० मनःपर्यवज्ञानिनः
  4. ६,००० अवधिज्ञानिनः
  5. ११,००० अवैक्रियलब्धिधारिणः
  6. १,३०० चतुर्दशपूर्विणः
  7. ५,००० चर्चावादिनः
  8. ८४,००० साधवः
  9. १,०३,००० साध्व्यः
  10. २,७९,००० श्रावकाः
  11. ४,४८,००० श्राविकाः

निर्वाणम् सम्पादयतु

यदा भगवान् श्रेयांसनाथः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्माणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।

तत्पश्चात् अनशनान्ते श्रावण-मासस्य शुक्लपक्षस्य द्वितीयायां तिथौ धनिष्ठा-नक्षत्रे सम्मेदशिखरे भगवतः श्रेयांसनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्राप्तवन्तः [५]

श्रेयांसनाथेन कौमारावस्थायाम् एकविंशतिलक्षवर्षाणां, राज्ये द्विचत्वारिंशल्लक्षवर्षाणां, दीक्षायाम् एकविंशतिलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चतुरशीतिलक्षवर्षाणि भुक्तानि आसन् [६]

भगवतः शीतलनाथस्य निर्वाणानन्तरं त्रयस्त्रिंशत्सहस्रोत्तरषड्षष्ठीलक्षवर्षाणि, एककोटिसागरमात्रात्मकानि वर्षाणि परं श्रेयांसनाथः मोक्षं प्रापत् । अस्य तीर्थे त्रिपृष्टः वासुदेवः, अचलनामकः बलदेवः च अभवत् [७]

जैनतीर्थङ्कराः
  पूर्वतनः
शीतलनाथः
श्रेयांसनाथः अग्रिमः
वासुपूज्यः
 

सम्बद्धाः लेखाः सम्पादयतु

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 68
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 91
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 92
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 93
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=श्रेयांसनाथः&oldid=481829" इत्यस्माद् प्रतिप्राप्तम्