सतनामण्डलम् ( /ˈsətənɑːməndələm/) (हिन्दी: सतना जिला, आङ्ग्ल: Satna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सतना इति नगरम् ।

सतनामण्डलम्

Satna District
सतना जिला
सतनामण्डलम्
सतनामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे सतनामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे सतनामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मझगवा, बीरसिंहपुर, रघुराजनगर, कोतर, नागोद, रामपुर बघेलन, उंचाहरा, अमरपतन, मैहर, रामनगर
विस्तारः ७,५०२ च. कि. मी.
जनसङ्ख्या (२०११) २२,२८,९३५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७२.२६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://satna.nic.in/

भौगोलिकम् सम्पादयतु

सतनामण्डलस्य विस्तारः ७,५०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रीवामण्डलं, पश्चिमे पन्नामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं सतनामण्डलस्य जनसङ्ख्या २२,२८,९३५ अस्ति । अत्र ११,५७,४९५ पुरुषाः, १०,७१,४४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.१९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ७२.२६% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- मझगवा, बीरसिंहपुर, रघुराजनगर, कोतर, नागोद, रामपुर बघेलन, उंचाहरा, अमरपतन, मैहर, रामनगर ।

वीक्षणीयस्थलानि सम्पादयतु

चित्रकूट-नगरम् सम्पादयतु

चित्रकूट-नगरम् एकं धार्मिकं, सांस्कृतिकम्, ऐतिहासिकं च स्थलमस्ति । इदं नगरं सतनामण्डलस्य बुन्देलखण्ड-प्रदेशे स्थितमस्ति । अस्मिन् नगरे हिन्दुसंस्कृत्याः अनेकानि मन्दिराणि सन्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।

ग्रीद्धराज-पर्वतः सम्पादयतु

ग्रीद्धराज-पर्वतः रामनगर-उपमण्डलस्य देवराज-नगरे स्थितमस्ति । अयं पर्वतः रामनगरात् ८ कि. मी. दूरे अस्ति । अयं धर्मपर्वतः कथ्यते । अस्य पर्वतस्य उल्लेखः स्कन्दपुराणे अपि अस्ति । स्कन्दपुराणे अस्य पर्वतस्य नाम ग्रीद्धाञ्चल-पर्वतः अस्ति ।

भरहुत सम्पादयतु

भरहुत-नगरं सतनामण्डलस्य प्राचीनतमं नगरम् अस्ति । अस्मिन् नगरे स्तूपः अस्ति । भरहुतस्तूपस्य निर्माणम् ई. पूर्वे तृतीयशताब्द्यां मौर्यशासकेन अशोकेन कारितम् । किन्तु कलाकार्यं शुङ्गवंशस्य शासनकाले अभवत् ।

अन्यानि वीक्षणीयस्थलानि सम्पादयतु

मैहर इत्यत्र माता-शारदा-मन्दिरं, रामवनम् इत्यत्र तुलसी-सङ्ग्रहालयः, बीरसिंहपुर इत्यत्र शिव-मन्दिरं, सतना इत्यत्र वेङ्कटेश-मन्दिरं वैष्णोदेवी-मन्दिरं च, गञ्ज सलेहा इत्यत्र चोमुखीनाथ-मन्दिरं, नागौद-दुर्गः, परसमनिया-उपशैलं, भरजुनादेवी, भाकुल-बाबा, कर्दमेश्वरनाथः, नागौद इत्यत्र बर्मेन्द्र जिला पुस्तकालय, साई-मन्दिरं, चित्रकूटधाम, पशुपतिनाथ-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://satna.nic.in/
http://www.census2011.co.in/census/district/296-satna.html

"https://sa.wikipedia.org/w/index.php?title=सतनामण्डलम्&oldid=463991" इत्यस्माद् प्रतिप्राप्तम्