सत्यजित् राय ( /ˈstjəɪt rɑːj/) (वङ्ग: সত্যজিত রায়, आङ्ग्ल: Satyajit Ray)-महोदयः भारतीयचलचित्रक्षेत्रस्य बहुप्रतिभान्वितेषु निदेशकेषु अन्यतमः । भारतरत्नप्रशस्तिभाक् एषः सुप्रसिद्धः चलचित्रनिर्माता, पत्रिकोद्यमी, बालकविः, चित्रकलाविच्च । द्विवारम् अन्ताराष्ट्रियाम् 'आस्कर्'-प्रशस्तिं प्राप्तवान् सत्यजिद्वर्यः [१]

सत्यजित राय
সত্যজিত রায়
विंशतितमाब्द्यस्य सर्वोत्तमः चलच्चित्रनिर्माता सत्यजिद्वर्यः
जन्म (१९२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०२)२ १९२१
कोलकता
मृत्युः २३ १९९२(१९९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-२३) (आयुः ७०)
कोलकता, पश्चिमबङ्गलराज्यम्, भारतम्
शिक्षणस्य स्थितिः कोलकाता विश्वविद्यालय, विश्वभारती-विश्वविद्यालयः, Ballygunge Government High School, प्रेसिडेन्सि विश्वविद्यालयः Edit this on Wikidata
वृत्तिः चलचित्रनिर्मापकः,
चलचित्रनिदेशकः,
लेखकः,
सङ्गीतनिदेशकः,
गीतरचनकारः
सक्रियतायाः वर्षाणि १९५--१९९२
भार्या(ः) बिजोया राय (१९९-११९२)
अपत्यानि सन्दीप राय Edit this on Wikidata
जालस्थानम् अधिकृतजालस्थानम्

श्रीसत्यजित् स्वजीवनकाले ३७ चलच्चित्राणां निदेशनम् अकरोत् । तेषु चलच्चित्रेषु बॉलिवुट्-चलच्चित्राणि, वृत्तचित्राणि, लघुचलच्चित्राणि अन्तर्भवन्ति । तस्य प्रप्रथमं चलच्चित्रं पथेर पाञ्चाली (পথের পাঁচালী, पथ का गीत) 'कान'-चलच्चित्रोत्सवे 'सर्वोत्तम मानवीय प्रलेख'-पुरस्कारं प्रापत् । तेन चलच्चित्रेण आहात्य एकादश अन्ताराष्ट्रियपुरस्काराः प्राप्ताः । ततः 'अपराजितो' (অপরাজিত), 'अपुर संसार' (অপুর সংসার, अपु का संसार) इत्येतयोः चलच्चित्रयोः अतिप्रसिद्धिः अभवत् । श्रीसत्यजितः चलच्चित्रनिर्माणसम्बद्धानि अनेकानि कार्याणि स्वयमेव करोति स्म यथा — पटकथालेखनं, अभिनेतुः अन्वेषणं, नैपथ्यसङ्गीतलेखनं, चलच्चित्रणं, कलानिदेशनं, सम्पादनं, प्रचारसामग्र्याः रचना च । चलच्चित्रनिर्माणेन सह अतिरिक्तकार्येषु सः कथालेखकः, प्रकाशकः, चित्रकारः, चलच्चित्रालोचकः अपि आसीत् । श्रीसत्यजित् स्वजीवने अनेकान् पुरस्कारान् प्राप्तवान्, येषु 'अकादमी मानद'-पुरस्कारः, भारतरत्नपुरस्कारः च अन्तर्भवतः ।

जन्म, परिवारसश्च सम्पादयतु

१९२१ तमस्य वर्षस्य मई-मास्य द्वितीये (२/०५/१९२१) दिनाङ्के कोलकाता-महानगरे श्रीसत्यजितः जन्म अभवत् । श्रीसत्यजितः पितुः नाम सुकुमारः, मातुश्च नाम सुप्रभा आसीत् । ख्यातकवेः कलाविदः सुकुमारवर्यस्य गृहे समुद्भूतः श्रीसत्यजित् कलाप्रेमी, साहित्यप्रेमी च आसीत् । तस्य पितामहः उपेन्द्रकिशोरवर्यः अपि उत्तमलेखकः, चित्रकारश्च आसीत् । बाल्यादारभ्य गृहे शास्त्रीयसङ्गीतस्य वातावरणं श्रीसत्यजितः व्यक्तित्वनिर्माणे महत्त्वपूर्णं योगदानम् अकरोत् । एवं जन्मना कलाप्रपञ्चे सिद्धहस्तानां सम्पर्कवशात् श्रीसत्यजित् स्वयमपि कलाक्षेत्रस्य उत्तमः तारकः अभवत् ।

श्रीसत्यजितः पूर्वजानां सहस्रवर्षाणाम् इतिहासः उपलब्धः अस्ति [२] । तस्य पितामहः उपेन्द्रकिशोर चौधरी महान् लेखकः, चित्रकारः, दार्शनिकः, प्रकाशकः, खगोलशास्त्री च आसीत् । सः ब्रह्मसमाजस्य नेता अपि आसीत् । उपेन्द्रकिशोरस्य पुत्रः सुकुमार ठाकुर वङ्गभाषायां कविताः लिखति स्म । सः योग्यः चित्रकारः, आलोचकः अपि आसीत्

बाल्यं, शिक्षणञ्च सम्पादयतु

यदा श्रीसत्यजित् केवलं त्रिवर्षीयः आसीत्, तदैव तस्य पिता दिवङ्गतः । अतः तस्य परिवारे आर्थितसङ्कटम् आपतितम् । परिवारस्य पोषणं कर्तुं तस्य माता वृत्त्युपार्जनं करोति स्म । श्रीसत्यजितः शिक्षणं कोलकाता-महानगरे स्थिते 'प्रेसिडेन्सी कॉलेज' मध्ये तथा च विश्वभारतीविश्वविद्यालये अभवत् । तेन 'प्रेसिडेन्सी'-महाविद्यालये अर्थशास्त्रस्य अध्ययनं कृतम् । परन्तु तस्य रुचिः तु कलाक्षेत्रे आसीत् । १९४० तमे वर्षे तस्य मातुः आग्रहेण सः रवीन्द्रनाथद्वारा स्थापिते विश्वभारतीविश्वविद्यालये प्रवेशं प्राप्तवान् । श्रीसत्यजिते कोलकाता-महानगरस्य वातावरणं रोचते स्म । सः शान्तिनिकेतनस्य बुद्धिजीविमनुष्यैः अपि अधिकः प्रभावितः नासीत् [३] । मातुः आग्रहवशात् तथा च ठाकुरं प्रति आदरभावत्वात् अन्ततो गत्वा सः विश्वभारतीविश्वविद्यालयं गन्तुं निश्चयम् अकरोत् । शान्तिनिकेतने श्रीसत्यजित् पूर्वीयकलया अतिप्रभावितः अभवत् । एकस्मिन् साक्षात्कारे तेन अङ्गीकृतं यत्, प्रसिद्धः चित्रकारः नन्दलाल बोस[४], विनोद बिहारी मुखर्जि इत्येताभ्यां तेन बहुकिमपि अधीतम् इति । ततः तेन श्रीविनोदस्य जीवनाधारितम् एकं वृत्तचित्रम् अपि निर्मितम् । 'द इनर आई' इति तस्य वृत्तचित्रस्य नाम आसीत् । अजन्ता-एलोरा-एलिफेण्टा-गुहाः दृष्ट्वा सः भारतीयकलायाः प्रशंसकः अभवत् [५]

विवाहः सम्पादयतु

१९४९ तमे वर्षे श्रीसत्यजितः बहुदीर्घकालपरिचितया बिजोय-नामिकया प्रियतमया सह विवाहः अभवत् । तयोः एकः पुत्रः अभवत् । तस्य नाम सन्दीपः । सोऽपि चलच्चित्रेषु निर्देशकः अभवत् ।

व्यवसायः सम्पादयतु

चित्रकला सम्पादयतु

शान्तिनिकेतने सः यत् अध्येतुं गतः आसीत्, तस्य अभ्यासकालः पञ्चवर्षात्मकः आसीत् । परन्तु श्रीसत्यजित् १९४३ तमे वर्षे अध्ययनं मध्ये त्यक्त्वान् । ततः सः कोलकाता-महानगरं प्रत्यगच्छत् । तत्र तेन ब्रिटिश-विज्ञापनाभिकरणस्य (डी. जे.) वृत्तिः आरब्धा । तस्य पदस्य नाम 'लघुद्रष्टा' (junior visualize) आसीत् । तस्य मासिकवेतनं केवलम् अशीतिरूप्यकाणि आसीत् । यद्यपि दृष्टिरचना श्रीसत्यजिते बहु रोचते स्म, तथा च तेन सह योग्यव्यवहारः भवति स्म, तथापि संस्थायाः ब्रिटिश-कर्मचारिभिः, भारतीयकर्मचारिभिश्च मतभेदाः तु सर्वदा भवन्ति स्म । यतो हि ब्रिटिश-कर्मिणः अपेक्षया तस्य वतेनम् अधिकम् आसीत् । किञ्च श्रीसत्यजितः मतम् आसीत् यत्, “संस्थायाः अधिकतमाः ग्राहकाः प्रायः मूर्खाः एव सन्ति” इति [६] । १९४३ तमे वर्षे सः डी. के. गुप्ता-द्वारा स्थापिते 'सिग्नेट'-समाचारमुद्रणायलये कार्यं प्रारभत । मुद्रणालयस्य नवीनपुस्तकानां मुखपृष्ठस्य रचनायाः कार्यं गुप्ता श्रीसत्यजिते यच्छति स्म । यतो हि श्रीसत्यजित् स्वतन्त्रविचारैः मुखपृष्ठचित्राणां निर्माणं करोति स्म । श्रीसत्यजित् अनेकेषां पुस्तकानां मुखपृष्ठानि अरचयत् । तेषु 'जिम कार्बेट'-द्वारा लिखितं 'मैन-ईटर्स ऑफ् कुमाऊँ' (Man-eaters of Kumaon, कुमाऊँ के नरभक्षी), जवाहर लाल नेहरु-वर्यस्य 'डिस्कवरी ऑफ् इण्डिया' (Discovery of India, भारत की खोज) अपि अन्तर्भवतः । सः वङ्गभाषायाः पसिद्धोपन्यासस्य 'पथेर पाञ्चाली' (পথের পাঁচালী, पथ का गीत)-पुस्तकस्य बालसंस्करणाय अपि स्वयोगदानम् अयच्छत् । तस्य बालसंस्ककरणस्य नाम 'आम आँटिर भेँपु' (আম আঁটির ভেঁপু, आम की गुठली की सीटी) इति आसीत् । श्रीसत्यजितः सा रचना अतिप्रसिद्धा अभवत् । ततः तेन स्वस्य प्रप्रथमं चलच्चित्रम् अपि तस्य उपन्यासस्य सन्दर्भेण रचितम् । मुखपृष्ठस्य रचनया सह तस्य पुस्तकस्य आन्तरिकचित्राणाम् अपि निर्माणम् अकरोत् श्रीसत्यजित् । तेषु अनेकानि चित्राणि तस्य चलच्चित्रे अपि द्रष्टुं शक्यन्ते [७]

श्रीसत्यजित् फॉन्ट-निर्माणम् अपि अकरोत् । तेन निर्मितौ 'फॉन्ट्' 'श्रीसत्यजित् रोमन', 'श्रीसत्यजित् बिजार' इत्येतौ प्रसिद्धौ स्तः । 'श्रीसत्यजित् रोमन' इत्ययं 'फॉन्ट्' १९७० तमे वर्षे अन्ताराष्ट्रियपुरस्कारम् अपि प्रापत् । कोलकाता-महानगरे श्रीसत्यजितः गणना कुशलचित्रकारेषु भवति स्म । श्रीसत्यजित् स्वस्य पुस्तकानां चित्राणि, मुखपृष्ठानि च स्वयमेव निर्माति स्म । स्वस्य चलच्चित्राणां प्रचारसामग्र्याः रचनाम् अपि सः स्वयं करोति स्म ।

चलच्चित्रस्य निदेशनम् सम्पादयतु

सः स्वस्य चलच्चित्रस्य व्यवसायस्य आरम्भं व्यावसायिकचित्रकारत्वेन अकरोत् । फांसदेशस्य चलच्चित्रनिर्देशकेन, जो रन्वार इत्यनेन सह सम्पर्कं कृतवान् । ततः लन्दन-महानगरे 'लाद्री दी बिसिक्लेत' (Ladri di biciclette, बाइसिकल चोर)-नामकं चलच्चित्रं दृष्ट्वा तेन चलच्चित्रनिदेशनस्य सङ्कल्पः कृतः ।

१९४७ तमे वर्षे चिदानन्द दासगुप्ता इत्यनेन सह तथा च अन्यजनैः सह मिलित्वा श्रीसत्यजितः कोलकाताचलच्चित्रसभायां कार्यं प्रारभत । तत्र तेन अनेकानि वैदेशिकानि चलच्चित्राणि दृष्टानि । तेन द्वितीयविश्वयुद्धस्य कोलकाता-महानगरस्थैः वैदेशिकसैनिकैः सह मित्रता सेविता । ते श्रीसत्यजिते नगरस्थानां चलच्चित्राणां विवरणं यच्छन्ति स्म । १९४९ तमे वर्षे श्रीसत्यजितः विवाहः बिजोय-नामिकया कन्यया सह अभवत् । तस्मिन्नेव वर्षे फ्रान्स-देशीयः चलच्चित्रनिदेशकः 'जो रन्वार' कोलकाता-महानगरे स्वस्य चलच्चित्रस्य कार्यार्थं गतः आसीत् । श्रीसत्यजितः अभिनयोपेतं स्थानम् अन्वेष्टुं रन्वार इत्यस्य साहाय्यम् अकरोत् । श्रीसत्यजित् 'पथेर पाञ्चाली'-चलच्चित्रस्य स्वविचारान् तस्य सम्मुखम् उपास्थापयत् । श्रीसत्यजितः विचारान् श्रुत्वा रन्वार इत्ययं तं प्रोदसाहयत् [८] (तस्य प्रोत्साहनम् अकरोत् इति) । १९५० तमे वर्षे डी. जे. केमर इत्ययं श्रीसत्यजितं लण्डन-महानगरस्थं मुख्यालयं प्रैषयत् । लन्दन-महानगरे यापिताः त्रिमासाः श्रीसत्यजितः जीवने परिवर्तनम् आनीतवन्तः । सः तेषु त्रिषु मासेषु ९९ चलच्चित्राणि अपश्यत् । तेषु 'वित्तोरियो दे सीका'-द्वारा निर्मितं 'नवयथार्थवादी'-चलच्चित्रं, 'लाद्री दी बिसिक्लेत्ते' (Ladri di biciclette, बाइसिकल चोर) च अन्तर्भवतः । 'लाद्री दी बिसिक्लेत्ते'-चलच्चित्रं श्रीसत्यजितं प्रभावितम् अकरोत् । तत् चलच्चित्रं दृष्ट्वा एव तेन सङ्कल्पः कृतः यत्, "अहं निदेशकः भविष्यामि" इति [९]

चलच्चित्रक्षेत्रे प्राप्तया सफलतया श्रीसत्यजितः आर्थिकस्थितौ अधिकं परिवर्तनं नाभवत् । सः स्वपरिवारेण सह एकस्मिन् लघुगृहे भाटकं दत्त्वा एव निवसति स्म [१०] । १९६० तमस्य दशके श्रीसत्यजित् जापान-देशस्य यात्राम् अकरोत् । तत्रत्येन प्रख्यातेन चलच्चित्रनिदेशकेन 'अकीरा कुरोसावा' इत्यनेन सह तस्य सम्मर्कः अभवत् । ततः भारतदेशस्य दार्जीलिङ्ग सदृशेषु स्थलेषु एकान्तवासं कृत्वा सः कथानकं लिखति स्म ।

मृत्युः सम्पादयतु

१९८३ तमे वर्षे 'घरे बाइरे'-नामकस्य चलच्चित्रस्य निर्माणे सः व्यस्तः आसीत् । सहसा श्रीसत्यजित् हृदयाघातेन ग्रस्तः अभवत् । अतः तस्य जीवनस्य अन्तिमेषु नववर्षेषु सः अधिकं कार्यं कर्तुं नाशक्नोत् । 'घरे बाइरे'-चलच्चित्रस्य निर्माणं स्वपुत्रस्य साहाय्येन तेन १९८४ तमे वर्षे पूर्णं कृतम् । १९९२ तमे वर्षे हृदयस्य दुर्बलतायाः कारणेन श्रीसत्यजित् अधिकः अस्वस्थ्यः अभवत् । मृत्योः कतिचिद्भ्यः दिनेभ्यः प्रागेव सः 'अकादमी'-पुरस्कारेण सम्मानितः अभवत् । १९९२ तमे वर्षे अप्रैल-मासस्य द्वाविंशतितमे (२२/४/१९९२) दिनाङ्के तस्य मृत्युः अभवत् । तस्य मृत्योः कारणेन आभारतं शोकमयं वातावरणम् आसीत् । कोलकाता-महानगरस्य मार्गेषु तु सहस्रशः जनाः श्रीसत्यजिते श्रद्धाञ्जलिं दातुं प्रागच्छन् [११]

सम्बद्धाः लेखाः सम्पादयतु

रवीन्द्रनाथ ठाकुर

शान्तिनिकेतनम्

बॉलिवुड्

कोलकाता

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. "श्रीसत्यजितः, सत्यजित". Encyclopædia Britannica. एंसाइक्लोपीडिया ब्रिटैनिका इंकॉर्पोरेशन. <http://www.britannica.com/eb/article-9062818>. 
  2. सेटन 1971, पृष्ठम् 36
  3. रॉबिनसन २००३, पृष्ठम् ४६
  4. सेटन १९७१, पृष्ठम् ७०
  5. सेटन १९७१, पृष्ठम् ७१–७२
  6. रॉबिनसन २००३, पृष्ठम् ५६–५८
  7. रॉबिनसन २००५, पृष्ठम् ३८
  8. रॉबिनसन २००५, पृष्ठम् ४२–४४
  9. रॉबिनसन २००५, पृष्ठम् ४८
  10. रॉबिनसन २००३, पृष्ठम् ५
  11. अमिताव घोष (२००६). "Satyajit Ray". डूम ऑनलाइन. Archived from the original on 2005-04-04. आह्रियत 2015-01-28.  Unknown parameter |access= ignored (help)

फलकम्:भारतरत्नप्रशस्तिभूषिताः

"https://sa.wikipedia.org/w/index.php?title=सत्यजित्_राय&oldid=485285" इत्यस्माद् प्रतिप्राप्तम्