सवाई माधोपुरमण्डलं (हिन्दी: सवाई माधोपुर जिला, आङ्ग्ल: Sawai Madhopur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सवाई माधोपुरम् इत्येतन्नगरम् ।

सवाई माधोपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये सवाई माधोपुरमण्डलम्
राजस्थानराज्ये सवाई माधोपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थानम्
Area
 • Total १०,५२७ km
Population
 (२०११)
 • Total १३,३८,११४
Website http://sawaimadhopur.nic.in

भौगोलिकम् सम्पादयतु

सवाई माधोपुरमण्डलस्य विस्तारः १०५२७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे टोङ्कमण्डलम्, उत्तरे दौसामण्डलं, दक्षिणे कोटामण्डलम् अस्ति । अस्मिन् मण्डले चम्बल इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं सवाई माधोपुरमण्डलस्य जनसङ्ख्या १,३३८,११४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९४ अस्ति । अत्र साक्षरता ६६.१९ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -

  • सवाई माधोपुरम्
  • चौत का बडवारा
  • गङ्गापुर सिटी
  • खानदार
  • बौनली
  • मलरना डुङ्गर
  • वझीरपुरम्
  • बमनवास
 

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • रणथम्बोर राष्ट्रियोद्यानम्
  • रामेश्वरमन्दिरम्
  • रणथम्बोर किला
  • अन्नपूर्णामन्दिरम्
  • बत्तीस खम्बे

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सवाई_माधोपुरमण्डलम्&oldid=464762" इत्यस्माद् प्रतिप्राप्तम्