सहस्रलिङ्गं (Sahasralinga) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । शाल्मलानद्याः तीरे अस्ति । पूर्वं स्वर्णवल्लीमठः अत्र आसीत् । इदानीं मठः किञ्चिद्दूरे अस्ति । शिवरात्रिदिने सहस्रशः जनाः अत्र आगत्य शिवस्य आराधनं कुर्वन्ति । नद्यां भक्त्या स्नानं कुर्वन्ति च । अत्रत्या प्रकृतिः सुन्दरी विद्यते ।

असङ्ख्यानि लिङ्गानि

सम्पर्कः सम्पादयतु

उत्तरकन्नडमण्डलस्य शिरसितः १२.५ किलोमीटर् दूरे यल्लापुरमार्गे गम्येत चेत् वामभागे १.५किलोमीटर् दूरे हुळगोळग्रामः प्राप्यते । ततः पश्चिमस्यां दिशि शाल्मलानद्याः तीरे सहस्रलिङ्गस्य दर्शनं भवति । २.५ किलोमीटर्-विस्तारयुतायां शाल्मलानद्यां प्रायः २५०० लिङ्गानि सन्ति । एतदर्थमेव सहस्रलिङ्गम् इति अस्य स्थानस्य नाम । धारवाडमण्डलस्य कलघटगी इति स्थाने उद्भवति इयं शाल्मलानदी ।

इतिहासः सम्पादयतु

एतेषां लिङ्गानाम् अनेकवर्षाणां ऐतिह्यमस्ति । एतेषाम् उद्भवविषये, इतिहासः, विश्वासः च जनमाससे विविधरूपेण वरीवर्तते । नद्यां लिङ्गानि नन्दिविग्रहाः शिलाभिः निर्मिताः सन्ति । केषुचित् लिङ्गेषु प्राचीना कन्नडलिपिः अस्ति । शासनेषु एतत् स्थानं सहस्रहळ्ळी इति उल्लिखितम् ।

कथाः सम्पादयतु

सोयिदेवः अनपत्यताकारणतः नद्यां लिङ्गं स्थापयित्वा आराधयामि इति देवं प्रार्थितवान् । यदा सन्तानं प्राप्तं तेन तदा लिङ्गानि संस्थाप्य दानरूपेण पूजार्थं भूमिं दत्तवान् इति शासनेषु उल्लिखितमस्ति । दर्शनेन एतानि लिङ्गानि पूर्वं राजभिः कारितानि इव दृश्यन्ते । बृहत्यां शिलायाम् एव वृत्ताकारेण लिङ्गानि निर्मितानि सन्ति । तेषां मध्ये चषकाकृतिः दृश्यते । चषाकाकारं परितः नवग्रहसङ्केतः उत्कीर्णः । एतेषां लिङ्गानां मध्ये बृहन्नन्दिविग्रहाः अपि उत्कीर्णाः । नाट्यभङ्ग्यां स्थिताः कलाकृतयः दृश्यन्ते । एताः वीक्षकाणां मनांसि हरन्ति ।

पुरा शिल्पकलापाठशालाः आसन् । स्वादिराजः स्वप्रीतिभाजां राज्ञां कृते इतः कलात्मकवस्तूनि कारयित्वा प्रेषयति स्म । स्वादिप्रदेशस्य अनेकानि भवनानि, स्तम्भाः मूर्तयः अत्र एव रचिताः । स्वादिराजः बनवासिराजाय शिलानिर्मितं पर्यङ्कं कारयित्वा प्रेषितवान् इति श्रूयते ।

अन्या काचित् कथा एवम् अस्ति । पाण्डवैः एतानि निर्मितानि इति । लिङ्गानाम् उद्भवविषये विश्वासार्हाः अधाराः न सन्ति । अत्र सर्वाणि लिङ्गानि मृदुशिलाभिः निर्मितानि सन्ति । एतेन ज्ञायते अत्र शिल्पशाला आसीत् इति । शिक्षणार्थम् अत्र शिलाभिः शिवलिङ्गानि निर्मितानि सन्ति इति, एषः अपि अङ्गीकारार्हः विषयः । एतस्मिन् विषये वादविवादाः केऽपि भवन्तु, परन्तु एतत् प्रवासिनाम् उत्तमं स्थानमस्ति इति विषये नास्ति विप्रतिपत्तिः ।

प्रतिवर्षं वर्षाकाले जलस्य आवर्तैः कानिचन् लिङ्गानि नष्टानि भवन्ति इति अत्रत्याः वदन्ति ।

अत्र प्रतिदिनम् ईश्वरपूजा भवति । शिवरात्रिपर्वणि अत्र सहस्राधिकाः जनाः आगच्छन्ति । ग्रीष्मकालः लिङ्गानां वीक्षणार्थम् उत्तमः समयः अस्ति । परन्तु आतपं सोढ्वा शिलायाः उपरि स्थित्वा लिङ्गदर्शनं साहसमेव । यदि भवन्तः द्विसहस्रलिङ्गानि द्र्ष्टुमिच्छन्ति तदा नदीमार्गेण सार्धकिलोमीटर्द्वयं गन्तव्यम् ।

हुळगोळग्रामं गन्तुं यानव्यवस्था नास्ति । प्रवासिभिः स्वाकीयेन वाहनेन अथवा भाटकवाहनेन गन्तव्यं भवति ।

वीथिका सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सहस्रलिङ्गम्&oldid=360959" इत्यस्माद् प्रतिप्राप्तम्