साङ्गलीमण्डलं (मराठी: सांगली जिल्हा, आङ्ग्ल: Sangli District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं साङ्गली इत्येतन्नगरम् | दुग्ध-फल-मन्दिर-योद्धॄणां मण्डलमिदं कथ्यते । 'बत्तीस-शिराळा' स्थानार्थं प्रसिद्धम् इदं मण्डलम् । दाडिम-द्राक्षाफलानाम् उत्पादनप्राचुर्यात् प्रसिद्धं मण्डलमिदं । मिरज-उपमण्डले सङ्गीतसाधनानां निर्माणप्राचुर्यात् तथा प्रसिद्धम् ।

साङ्गलीमण्डलम्

Sangli district

साङ्गली जिल्हा
मण्डलम्
महाराष्ट्रराज्ये साङ्गलीमण्डलम्
महाराष्ट्रराज्ये साङ्गलीमण्डलम्
देशः  India
जिल्हा साङ्गलीमण्डलम्
उपमण्डलानि मिरज, कवठे महाकाळ, जत, आटपाडी, तासगाव, पलुस, वाळवा, शिराळा, विटा-खानापुर, कडेगाव
विस्तारः ८,५७७ च.कि.मी.
जनसङ्ख्या(२०११) २८,२२,१४३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://sangli.gov.in
प्रचीतगड कोटः
दण्डोबा-अभयारण्यतः किञ्चन छायाचित्रम्
गो.ग.आगरकर
ग.दि.माडगुळकर

भौगोलिकम् सम्पादयतु

साङ्गलीमण्डलस्य विस्तारः ८,५७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि रत्नगिरिमण्डलम्, उत्तरदिशि सोलापुरमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्य मण्डलस्य मुख्यनद्यः सन्ति कृष्णा, वारणा, माणगङ्गा च । अस्मिन् मण्डले ४००-४५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलस्य पश्चिमसीमाप्रदेशे सह्यावल्याः प्रमुखा श्रेणी वर्तते ।

कृषिः उद्यमाश्च सम्पादयतु

तण्डुलः, यवनालः(ज्वारी), 'बाजरी', कलायः, हरिद्रा, 'सोयाबीन', इक्षुः, गोधूमः, द्राक्षाफलानि, दाडिमफलानि च अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । भारतदेशे प्रचलति हरिद्राविक्रयणे ८०% हरिद्रा अस्मिन्नेव मण्डले उत्पाद्यते, हरिद्रायाः निक्षेपश्च(storage) भवति । तथा साङ्गलीमण्डलपरिसरः भारतदेशस्य ’sugar belt’ कथ्यते । शर्करानिर्माणोद्यमः, दुग्धव्यवसायः च प्रचलति अत्र । शर्करानिर्माण-क्षेत्रे 'सहकारि'-सङ्घाः सन्ति । १९९० तमवर्षपर्यन्तम् अत्रस्थः शर्करा-उद्यमः एशियाखण्डे बृहत्तमः आसीत् । साङ्ग्लीमण्डलं मदिरानिर्माणोद्यमे प्रवेशं कुर्वदस्ति, 'कृष्ण-व्हेली-वाईन-पार्क', पलुस इत्यस्थ महाराष्ट्रशासनस्य प्रकल्पः विश्वे ख्यातः । मण्डलमिदं मदिरायाः विदेशविक्रयणे अग्रगण्यं वर्तते । केन्द्रसर्वकारेण कृषिनिर्यातप्रक्रियाकेन्द्रत्वेन(Agri−Export Processing Zone‌) साङ्गलीमण्डलं विज्ञापितम् अस्ति । साङ्गली-खाद्योद्यानम्(Sangli Food Park) इति प्रकल्पः शासनयोजनायां विद्यते ।
शर्करा-उद्यमाः, 'आय.टी.पार्क' इत्येताः उद्यमाः प्रचलन्ति ।

जनसङ्ख्या सम्पादयतु

साङ्गलीमण्डलस्य जनसङ्ख्या(२०११) २८,२२,१४३ अस्ति । अस्मिन् १४,३५,७२८ पुरुषाः, १३,८६,४१५ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६६ अस्ति । अत्र साक्षरता ८१.४८ % अस्ति ।

ऐतिहासिकं किञ्चित् सम्पादयतु

मण्डलपरिसरोऽयं मौर्य-सातवाहन-वाकाटक-राष्ट्रकूट-चालुक्य-शिलाहार-यादव-बहमनी-मुघल-मराठाराजानाम् आधिपत्ये आसीत् । भारतदेशस्य स्वातन्त्र्यसङ्ग्राम-इतिहासे अमरः बिळाशी-सत्याग्रहः अत्रस्थजनैः कृतः । स्वातन्त्र्योत्तरकाले यदा विलीनीकरणं जातं तदा परिसरोऽयं सातारामण्डले समाविष्टः आसीत् । अन्ततः १९६० तमे वर्षे अद्यतन-साङ्गलीमण्डलस्य स्थापना कृता ।

उपमण्डलानि सम्पादयतु

मण्डलेऽस्मिन् वर्तमानानि दश-उपमण्डलानि -

  • मिरज
  • कवठे महाकाळ
  • जत
  • आटपाडी
  • तासगाव
  • पलुस
  • वाळवा
  • शिराळा
  • विटा-खानापुर
  • कडेगाव

लोकजीवनम् सम्पादयतु

कृषि-उद्यमाभ्यां सह इदानीम् आय टी पार्क इत्यादीनां सेवाक्षेत्रसम्बद्धानाम् उद्यमानां विकास: जायमान: अस्ति । तस्य विकासस्य प्रभाव: जनानां व्यवहारेऽपि दृश्यते ।
पुरातनकालत: बहूनां क्रान्तिकारिणां, साहित्यिकानां च जन्मस्थानं, कार्यस्थलं वा अयं परिसर: । सद्य:कालेऽपि तस्य प्रभाव: अस्ति एव ।
व्यापारिकेन्द्रत्वेन अपि अस्य परिसरस्य विकास: जायमान: अस्ति ।
'बत्तिसशिराळा' इत्यस्मिन् स्थाने नागपञ्चमीदिने एका यात्रा प्रचलति । नागानां यात्रां जना: कारयन्ति, पूजनं च कुर्वन्ति । बागणी इत्यत्र यात्रा प्रचलति । एवम् उत्सवप्रिया: अत्रस्था: जना: ।

व्यक्तिविशेषा: सम्पादयतु

बहूनां व्यक्तिविशेषाणां कार्यस्थलं, जन्मस्थलं वा आसीत् इदं मण्डलम् । यथा - यशवन्तराव चव्हाण, वसन्तदादा पाटील, व्ही. एस्. पाटील, क्रान्तिसिंह: नाना पाटील, गोविन्द बल्लाळ देवल, वि. स. खाण्डेकर, ग. दि. माडगुळकर, गो. ग. आगरकर, अण्णाभाऊ साठे, विठोजीराव चव्हाण ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • दण्डोबा-अभयारण्यम्
  • चान्दोली इत्यत्र जलबन्ध:, अभयारण्यं च
  • मिरज इत्यत्र 'दर्गाह्'
  • हरिपूर इत्यत्र सागरेश्वर/सङ्गमेश्वरमन्दिरम्, अभयारण्यम्
  • प्रचितगड-कोट:
  • शिराळा इत्यत्र नागपञ्चमीदिने यात्रा बत्तीस
  • तासगाव इत्यत्र गणेशमन्दिरम्
  • भिवघाट इत्यत्र शुकाचार्यस्य गह्वर:
  • गणेशदुर्ग-कोट:
  • औदुम्बर इत्यत्र दत्तमन्दिरम्
  • बागणी इत्यत्र भूमिकोट:

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=साङ्गलीमण्डलम्&oldid=481076" इत्यस्माद् प्रतिप्राप्तम्