चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaman D Deshmukh) भारतस्य प्रमुखः अर्थशास्त्रज्ञः आसीत् । सः सी. डि. देशमुख् इत्येव प्रसिद्धः आसीत् । अयं 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि आसीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्र्यानन्तरं सः केन्द्रसर्वकारस्य सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।

सर्
चिन्तामण् द्वारकानाथ देशमुख्
१९५९तने वर्षे चिन्तामण् द्वारकानाथ देशमुख्
अर्थसचिवः
In office
मे २९, १९५०[१]-१९५७
Prime Minister जवाहरलाल नेह्रू
Preceded by जान् मथै
Succeeded by टि टि कृष्णमाचारि
तृतीयः
In office
१९४३-४९
Preceded by जेम्स् ब्रैड् टेलर्
Succeeded by बेनेगल् राम राव्
व्यैय्यक्तिकसूचना
Born (१८९६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१४)१४ १८९६
नाटे, मह्दनगरम्, रायगडमण्डलम्, महाराष्ट्रराज्यम्
Died २ १९८२(१९८२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०२) (आयुः ८६)
Nationality भारतीयः
Alma mater केम्ब्रिड्ज् विश्वविद्यालयः

प्रारम्भिकजीवनम् सम्पादयतु

१८९६ तमे वर्षे जनवरीमासस्य १४ दिनाङ्के महाराष्ट्रराज्यस्य रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादी आसीत् । माता भागीरथीबाई । एतेषां पूर्णकुटुम्बः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थी च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे ब्रिटेन्-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे लन्डन्-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान् ।

वृत्तिजीवनम् सम्पादयतु

  • १९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरं कार्यदर्शिरूपेण कार्यम् आरब्धवान् । १९४३- १९५०तमवर्षपर्यन्तं सः वित्तकोशस्य मुख्याधिकारिपदं निरूढवान् ।
  • १९४४तमे वर्षे 'ब्रेटन-उड्स्' सम्मेलने भारतस्य प्रतिनिधिरूपेण भागं स्वीकृतवान् । सम्मेलनस्य परिणामतः अन्ताराष्ट्रिय-आर्थिकनिधिः (IMF) (इन्टर्नाशनल् बेङ्क् फ़ार् रिकन्स्ट्रक्षन् आण्ड् डेवेलप्मेण्ट्)(IBRD) नामकं संस्थाद्वयं स्थापितम् । तदनन्तरं देशमुखवर्यः एकवर्षपर्यन्तम् एतयोः संस्थयोः सदस्यः आसीत् । १९५१तमे वर्षे प्यारिस्-नगरे एतयोः संयुक्ताश्रयेण वार्षिकसम्मेलनं सञ्जातम् । तत्र देशमुखवर्यः अध्यक्षः आसीत् ।
  • आङ्ग्लसर्वकारतः भारतदेशः यदा विभक्तः तदा देशमुखवर्यः विभक्तराष्ट्रद्वयस्य वित्तकोशीयव्यवहारान् आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शनेन रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
  • १९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनाम् अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्त्वा सः विश्वविद्यालयानाम् अनुदानायोगस्य पूर्णावधि-अध्यक्षरूपेण नियुक्तः । तदनन्तरं देहलीविश्वविद्यालयस्य कुलपतिः अभवत् ।

वैयक्तिकजीवनम् सम्पादयतु

देशमुखवर्यः एकाम् आङ्ग्लकन्याम् ऊढवान् । एतयोः एका पुत्री अपि जाता । किन्तु भारतस्य स्वातन्त्र्यानन्तरं सा इङ्ग्लेण्ड्देशं प्रति गतवती । अनन्तरं देशमुखवर्यः दुर्गाबाई इत्याख्यां कन्यां परिणीतवान् । सा काङ्ग्रेस्पक्षस्य सदस्या स्वातन्त्रयोधा च ।

१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवङ्गतः ।

पुरस्काराः सम्पादयतु

  • १९३७तमे संवत्सरे CIE (Companion of the Order of the Indian Empire)-संस्थायां देशमुखवर्यः नियुक्तः ।
  • १९४४तमे संवत्सरे, आङ्ग्लसर्वकारतः 'नैट्-हुड्' (Knighthood) उपाधिं प्राप्तवान् ।
  • १९५७तमे संवत्सरे,कोल्कताविश्वविद्यालयपरतया विज्ञानविषये गौरवडाक्टरेट्-पदवीं प्राप्तवान् । [२]
  • १९५९तमे संवत्सरे, रमोन् मैग्सेसे-पुरस्कारं प्राप्तवान् । [३])
  • १९७५तमे संवत्सरे, भारतीयसर्वकारतः पद्मविभूषणप्रशस्तिं प्राप्तवान् ।

टिप्पणी सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सि_डि_देशमुख&oldid=481086" इत्यस्माद् प्रतिप्राप्तम्