"नामदेव" इत्यस्य संस्करणे भेदः

No edit summary
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन्... नवीन पृष्ठं निर्मीत अस्ती
पङ्क्तिः १:
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत् | आहारस्वीकारसमये निद्रायां च सः पाण्डुरङ्गमेव स्मरति स्म | पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भबन्ति इति तस्य विश्वासः | तस्य् भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् | तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः | सद्या एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय् सर्वेषु गृहेषु विचचार | परन्तु न कोऽपि आहारं द्त्तवान् तस्मै, प्रत्युत सर्वे तं ताडितवन्तः |बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् | सद्य एव गृहे प्रविश्य् एकं अपूपं आनीतवान् | अपूपं शुनकस्य दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् | शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः | परन्तु अपूपं न भक्षितवान् |
भारतीय धर्मगुरुः।
 
*[[भारतीय-सूची]]
तदा नामदेवः एवं चिन्तितवान् शुनकः अपि पाण्डुरङ्ग एव | अस्मै रुचिपूर्णम् अपूपं न द्त्तवान् अहम् | घृतेन यदि मेलनं भवति तदा रुचिर्भवति इति मत्वा घृतपात्रं दर्शितवान् | शुनकः समीपं अगच्छत तस्य मुखात् अपूपं निरसार्य् खण्डशः कृत्वा घृतं आपूर्य् दत्तवान् | शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् | तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गं अस्मरत् | एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उअपहासं कृतवन्तः | कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ | परन्तु नामदेवः भगवतः पाण्डुरङ्ग्स्य दर्शनमासीदिति, सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, सत्यमेव पाण्डुरङ्गः इति, नामदेवः सत्यमेव पाण्डुरङ्गभक्तः इति, अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |
[http://namdeoshimpisamaj.org/Saint_Namdeo_Maharaj/ संत नामदेव महाराज]
"https://sa.wikipedia.org/wiki/नामदेव" इत्यस्माद् प्रतिप्राप्तम्