"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३७:
श्रीकृष्णदेवरायः कलिङ्गं न विस्मृतवान् । द्वितीया जैत्रयात्रा प्रथमायाः अपेक्षया विशिष्टरीत्या अभवत् । प्रथमं कन्दुकूरुदुर्गं वशीकृतवान् रायः । ततः तदा कलिङ्गराज्ये प्रसिद्धनगरं कोण्डवीडुं प्रति श्रीकृष्ण्देवरायस्य सैन्यम् अभिप्रवृत्तम् । दुर्गरक्षणार्थं प्रतापरुद्र्गजपतिः स्वयं १३०० गजैः, २०,००० अश्वैः, ५,००,००० सैनिकैः सह सज्जः आसीत् ।
सैन्यद्वयस्य मध्ये कापि नदी वेगेन प्रवहति स्म । श्रीकृष्णदेवरायः नदीं तर्तुं स्वसेनाम् आज्ञप्तवान् । नद्यामेव युद्धम् आरब्धम् । बहवः सैनिकाः मृताः । तथापि विजयनगरसैन्ये अधिकः भागः नदीं तीर्त्वा कलिङ्गसेनया सह युद्धम् आरभत । भयङ्करे युद्धे प्रवर्तमाने गजपतिः पलायितवान् । शत्रुसेनायाः सहस्स्रशः गजाः, अश्वः मृताः । कोण्डवीडुदुर्गं पूर्णतया वशीकर्तुं मासद्वयं तत्रैव स्थितवन्तौ श्रीकृष्ण्देवरायः तिम्मरसुः च । कोण्डवीडुराज्यं स्वाधीनम् अभवत् । प्रतापरुद्रगजपतेः पुत्रः वीरभद्रः प्रमुखैः सह गृहीतश्च ।
तृतीयजैत्रयात्रायाम् अधिकवेगेन बहून् प्रान्तान् जितवान् सः । परितः स्थिताः सुलतनसैनिकाः युद्धं कर्तुं सिद्धाः इति ज्ञात्वा बिदर् (विदर्भ्) प्रान्तं प्रविष्टवान् । सुदूरे स्थितं कोण्डपल्लिनगरम् अपि आक्रान्तवान् । तत् तदा कलिङ्गराज्यस्य राजधानी आसीत् । मासत्रयस्य
==जगन्मोहिनी==
राज्यात्, पत्न्याः, पुत्रतश्च वियुक्तेन प्रतापरुद्रगजपतिना किं करणीयमिति न ज्ञातम् । कस्याऽपि साहाय्यं न लब्धं तेन । पत्नीसुतयोः विषये चिन्तनम् अधिकम् अभवत् तस्य । अन्ते सन्धिं कर्तुं पत्रं लेखितवान् । श्रीकृष्णदेवरायः तिम्मरुसुः च न केवलं बुध्दिमन्तौ, उदारभाववन्तौ च । गजपतिः पराजितः अपि तस्य सहकारेण विजयनगरराज्यस्य लाभः इति चिन्तयित्वा तिम्मरुसुः तं निर्णीतस्थाने सम्पृक्त्तवान् ।
|