"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तत्र नवरात्रोत्सवः अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलन्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति ‘मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटक राज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति क र्णाटक राज्यस्य ‘सांस्कृतिक राजधानी’ इति प्रथां लभते । प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत्‌ अभिवृद्धिः क र्तुं साध्ये तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम्‌ । तत्र मैसूरुराजाः कारणम्‌ । दसरावसरे इदं नगरं अन्यादृशमिव शोभते । विजयनगर साम्राज्येन उपक्रान्तः महानवमी उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकं अभिव्याप्य अनुष्ठियं इदं व्रतं महानवमी इति उच्यते । दशम्यां उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिक सांस्कृ तिक कार्यक्र मः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृ त्यं श्रीमद्भिः श्रीकण्टदत्तनरसिंहराज ओडयर्‌ वर्यः निरुह्यते । बहिः कर्णाटक सर्वकारेण सांस्कृतिक कार्यक्रमेण सह कृषि, उद्यम, वाणिज्यादि सम्बद्धाः कार्यक्रमाः व्यवस्थापिताः । अस्मिन्‌ वत्सरे मन्दवासरे क लासाहित्यवाणिज्ययोग सन्गीतनृत्य, कृ षि, इत्यादि संगमस्य दसरा महोत्सवः यथाविधि उद्घाटितः । जीवनक लाप्रतिष्ठानस्य संस्थापकः श्री रविशन्करगुरुः महाबलाद्रौ चामुण्डेश्वरीदेवालये चण्डिकां पूजयित्वा उद्घाटनं अक रोत्‌ । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिक विपत्तौ, आर्थिक सन्करे, सामाजिक संक्षोभे अपि अयं उत्सवः मनस्स्थैर्यं स्थापयति । मानसिक स्वास्थ्यं संस्थापकौषधायते उत्सवः । अतः न क दापि न के नापि कारणेन अयमुत्सवः न स्थगनीयः आशु एव पद्यं विरचय्य वाचयित्वा क विहृदयं अनावृतम्‌ । सम्प्रति दसरामहोत्सवः वैभवशन्गं अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते ! जगन्मूलं मूलप्रकृ तिः परिणमते तदा वैषम्यं अनिवार्यम्‌ । एतदेव तत्वर्तः गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रू पेण समाराध्यते। किंतु न बाह्यार्चनमात्रेण अयं लाभः न अवाप्यते । तेन सः अन्तरन्गे सदिच्छासत्क्रि यासम्यग्‌ज्ञानं च सन्कलनीयं । तदैव एषा आराधना अर्भवति भवति । तत्र दसरावसरे चित्रक ला, शिल्पक ला, सन्गीतं नृत्यं क्रीडा, चलच्चित्रं, जानपदीयाक ला, साहित्यं, क विः, आहारः इत्येतत्सर्वमपि आराधना ममोभावेन निर्वहणीयम्‌ । तेनैव व्यक्ति विकासः समाजविकासश्च युगपत्‌ सम्भविष्यति । किं तु अयं उत्सवः पूर्वयोजनां विना प्रचाल्यते धनदाहेन । युद्धकाले शस्त्राभ्यास इव यथा क थञ्चित्‌ त्वरया येन के न प्रकारेण क र्म अनुष्ठीयते । मार्गाः प्रतिवत्सरं भग्नाः पिष्टपेषणमिव त एव मार्गाः समीक्रियन्ते । दीर्घकालसहतया अभिवृद्धिपरं कर्म न कृतम्‌ । राजशासनेन यत्‌ साधितं तद्‌ सम्प्रत्यदि इतरेभ्यः अतिशेते । कि मर्थं एतादृशं क र्तुं न शक्यते इति प्रजाप्रतिनिधिभिः सचिवैः, आधिकारिभिः कु तो न चिन्त्यते ? एतादृशचिन्तनशक्तेः अभावादेव सर्वं तात्कालिकं जातमिति सामान्यजनाः आक्षिपन्ति
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्