"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
श्रीकृष्णदेवरायस्य पट्टाभिषेकमहोत्सवः हम्पिनगरे विरुपाक्षमन्दिरे अत्यन्तं वैभवेन सम्पन्नः । विद्यारण्यः इव धार्मिकः, आध्यात्मिकविषयान् प्रबोधयन् महानुभावः साधुपुरुषः व्यासरायः राजधान्यां स्थित्वा मार्गदर्शनं करोति स्म ।
पट्टाभिषेकस्य स्मरणार्थं विरुपाक्षमन्दिरस्य प्राङ्ग्णे रङ्गनाथस्य मन्दिरं गोपुरञ्च निर्मितम् ।
असाधारणम् औन्नत्यम्, परिपुष्टः आकारः, श्यामवर्णः, मातुः इव् मुखाकृतिः, बलिष्टौ भुजौ, विशालं वक्षस्थलं,पश्यतः जनान् शीघ्रम् आकर्षत् कान्तिमत् नेत्रद्वयं, शरीरं स्पृशत् लम्बमानं दीर्घकञ्चुकम्-एतत् सर्वं श्रीकृष्णदेवरायस्य स्वरुपम्स्वरूपम् । सूर्योदयात् घण्टात्रयपूर्वमेव उत्थानं, व्यायामशालायां व्यायामाभ्यासः, ततः मल्लजनैः सह युद्धाभ्यासः, सेनानायकैः सह् ख्ङ्गविन्यासाभ्यासः, तदनन्तरं बलवतां मल्लशेखरैः द्वारा स्वशरीरे तैलमर्दनं, ततः सूर्योदयपर्यन्तम् अश्चचालनमिति श्रीकृष्णदेवरायस्य दिनचर्या आसीत् ।
तदानीं २० वर्षपूर्णः श्रीकृष्णदेवरायः यौवनेन्, उत्साहेन्, साहसेन अपि परिपूर्णताम् अलभत । एकस्मिन् दिने प्रभाते विजयनगरराजभवनस्य प्रथमसिंहद्वारे डोमंगो पेस् इति पोर्चगीस् देशीयः श्रीकृष्णदेवरायं मेलितुं निरीक्षते स्म । एकः सुन्दरः श्वेताश्वः प्रसादस्य अन्तर्भागाद् बहिः आगच्छ्न् दृष्टः । अश्वारुढस्य श्रीकृष्णदेवरायस्य द्दष्टिः तस्मिन् विदेशीये संलग्ना । झटिति ‘पेस्’ स्वस्य देशस्य सम्प्रदायानुसारं शिरः अवनमय्य नमस्कृतवान् । महाराजः पृष्टवान् ‘भवान् कः?’ इति । पेस् सन्देहेन एव स्वस्य, स्वदेशस्य च नाम उक्तवान् । ‘राजमन्दिरे मिलतु’ इति उक्त्वा अश्वम् अग्रे चालितवान् महाराजः । अश्वः अधावत् । पेस् महोदयः आश्चर्येण्आश्चर्येण सह आनन्दं च प्राप्तवान् । विदेशीयैः सह अपि एतादृशः उत्तमः व्यवहारः आसीत् तस्य ।
 
==विवाहः==
एकदा श्रीकृष्णदवरायः एकां सुन्दरीं युवतिं दृष्टवान् । सा युवतिः ‘तिप्पसानि’ नाम्न्याः वेश्यायाः पोषणे वर्धमाना आसीत् । तस्याः नाम नागाम्बिका इति । ‘चिन्न’ इति सर्वे तां सम्बोधयन्ति स्म । राजा तां परिणेतुम् ऐच्छत् । प्रजाः चिन्नादेवीं राज्ञीरूपेण न अङ्गीकुर्युः इति जानन् तिम्मरसुः ‘चिन्नदेवीम् अपि राज्ञीं करिष्य़ामः’ इत्युक्त्वा सहनया युक्त्या च श्रीकृष्णदेवरायं समाश्वसितवान् । सेनानायकस्य वीरय्यस्य पुत्र्या तिरुमलाम्बया सह तस्य विवाहं कारितवान् ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्