"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[वर्गः:तत्त्वज्ञानम्]]
{{stub}}
 
 
'''व्युत्पत्तिवादः'''
 
 
शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते।
स च क्वचिदभेदः, क्वचिच्च तदतिरिक्त एवाधाराधेय-प्रतियोग्यनुयोगि-विषयविषयिभावादिः।
 
अभेदान्वयबोधः
अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते। यथा "नीलो घटः" "नीलघटमानय" इत्यादौ घटादौ नीलादेः।
न तु विरुद्धविभक्तिमत्पदार्थस्य। "नीलस्य घटः" इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात्। स्वसमानविभक्तिकत्वञ्च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्। साजात्यञ्च विभक्तिविभाजकप्रथमात्वादिना, न तु समानानुपूर्वीकत्वेन । "वेदाः प्रमाणम्" "शतं ब्राह्मणाः" इत्यादावन्वयबोधानुपपत्तेः।
ननु "विंशत्याद्याः सदैकत्वे" इत्यनुशासनात् "शतं ब्राह्मणाः" इत्यादेः साधुत्वेऽपि "वेदाः प्रमाणम्" इत्यादयः कथं प्रयोगाः। विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्। अन्यथा "घटा नीलः" इत्यादेरपि साधुताप्रसङ्गात्। समानलिङ्गकस्थले तथानियमोपगमेन "वेदाः प्रमाणम्" इत्यादेः साधुत्वोपपादनेऽपि "इति हेतुस्तदुद्भवे" इति कारिकाया "इति त्रयः समुदिता हेतुः" इति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव।
एवमसमानलिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति "प्रत्यक्षानुमानोपमानशब्दाः
प्रमाणानि" "पितरो देवताः" इत्यादेरनुपपत्तिः।
मैवम्। यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं
तत्र विशेष्यविशेषण पदयोः समानवचनकत्व नियमः। अत एव "पुरूरवोमाद्रवसौ विश्वेदेवाः" इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योर्विशेषणतया विवक्षितत्वात् तद्वाचकस्य पदस्य द्विवचनन्तता। "वेदाः प्रमाणम्" इत्यत्र च विशेषणपदोत्तरविभक्त्या बहुत्वविरुद्धमेकत्वं विवक्षितम्। तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति। शाब्दप्रमाकरणत्वञ्च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यता।
न च "पदार्थः पदार्थेनान्वेति" इति व्युत्पत्तिविरोधः।
"सम्पन्नो व्रीहिः" इत्यनेकव्रीहितात्पर्यके ऽप्येकवचनदर्शनेन तादृशव्युत्पत्तिसंकोचस्यावश्यकत्वात्।
यदि च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजातेः स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते तदा प्रकृतेऽपीदृश्येव गतिः।
यत्तु "सम्पन्नो व्रीहिः" इत्यादावेकवचनोपस्थितानि नानैकत्वानि प्रत्येकं नानाव्रीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वभानोपगमो निरर्थक इति।
तदसत्। यतः स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपं सजातीयद्वितीयरहितत्वमेकवचनार्थः। न त्वेकत्वमात्रम्। तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभादनुपयोगाच्च। अत एव "पशुना यजेत" इत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरणकयागान्नादृष्टसिद्धिः।
साजात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्व रूपेण।
अतः "अत्र घटोऽस्ति" इत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वाप्रसिद्धावपि न क्षतिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति। तस्य च प्रसिद्धत्वात्। एतद्देशे बहुघटसत्त्वदशायां तादृशप्रयोगस्तु जात्येकत्वादेव समर्थनीयः।
यत्तु एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात्संख्याया अविवक्षणेऽपि "सम्पन्नो व्रीहिः" इत्यादावेकवचनोपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति।
तदप्यकिञ्चित्करम्। भावाख्यातस्थले गत्यन्तरविरहेण विभक्तेर्निरर्थकत्वोपगमात्। अत्र च
सार्थकत्वोपगमसम्भवे तत्परित्यागस्यानुचितत्वात्। सति तात्पर्ये तद्वोधस्यानुभविकत्वाच्चेति।
एवं "त्रयः समुदिता हेतुः" इत्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरम्,
तादृशसमुदायत्वान्वितमेकत्वमेकवचनार्थः।
अत एव शक्त्यादीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः। तथा सत्येषाम् एकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्त्रितयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः।
एवं "व्यक्त्याकृतिजातयः पदार्थः" इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्तत्वोपपत्तिः।
"प्रत्यक्षानुमान" इत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेन अविवक्षितत्वात् प्रमाणपदस्य बहुवचनान्ततेति।
एवं "पितरो देवताः" इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छेदक भेदेनैवोद्देश्यताभेदात्। तत्रैकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक्।
स्वप्रकृतिकत्वञ्च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम्। तेन दधि सुन्दरम् इत्यादौ विशेष्यपदानन्तरं विभक्तेरसत्त्वेऽपि न क्षतिः। तत्र विभक्तेरनुसन्धानं विना शाब्दबोधानुगमात्।
एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वम्। तेन "इदं दधि" इत्यादौ विशेषणपदानन्तरं विभक्तेरसत्त्वेऽपि न क्षतिः।
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्