"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
[[Image:Vitthala temple DK.jpg|250px|thumb|right|गानस्तम्भसहितः विठ्ठलमन्दिरम्]]
श्रीकृष्णदेवरायस्य सिंहासनारोहणसमये विजयनगरसाम्राज्यस्य स्थितिः कथम् आसीत् ? साळुववंशस्य प्रतिपक्षिभूते तौलुववंशे जातस्य प्रख्यात-दण्डनायकस्य नरसनायकस्य अधीनम् आसीत् तद् राज्यम् । स एव श्रीकृष्णदेवरायस्य जनकः । ज्येष्ठपत्न्याः पुत्रः नरसिंहः, द्वितीयपत्न्याः पुत्रः श्रीक्रुष्णदेवरायः इति उभौ पुत्रौ आस्तां नरसनायकस्य ।
। गच्छ्ता कालेन द्वितीयनरसिंहः अधीनराजानां नियन्त्रणे कष्टम् अनुभूतवान् ।
श्रीकृष्णदेवरायः क्रैस्ताब्दे १४७४ तमे वर्षे अजायत । नरसनायकः सर्वाधिकारान् प्राप्तवान् अपि आत्मानं चक्रवर्तित्वेन न प्रकटितवान् । ज्येष्ठपुत्रस्य द्वितीय-वीरनरसिंहस्य सिंहासनारोहणानन्तरं परिस्थितीनां परिवर्तनम् अभवत् । साळुववंशजान् सम्पूर्णतया निष्कास्य, ‘महाराजाधिराज’ इत्यादीनां बिरुदानाम् उपयोगं आत्मनः विषये कृतवान् वीरनरसिंहः । तेन पार्श्वराजानाम् मनसि असूया अवर्धत । तत्र तत्र तद्विरॊधिसङ्घटनानि उत्पन्नानि । गच्छ्ता कालेन द्वितीयनरसिंहः अधीनराजानां नियन्त्रणे कष्टम् अनुभूतवान् ।
तेषु एव दिनेषु युवा श्रीकृष्णदेवरायः पालनविधानं ज्ञातवान् । द्वितीयवीरनरसिंहः श्रीकृष्णदेवरायस्य वीरत्वं, प्राबल्यञ्च न असहत । साम्राज्यं स्वीयसप्तवर्षीयेण पुत्रेण प्राप्तव्यम् इति तस्य इच्छा आसीत् । मृत्युसमयः समागतः इति ज्ञात्वा विश्वासपात्रेण केनचित् मन्त्रिणा सह समालोच्य कुतन्त्रं रचितवान् सः ।
‘महामन्त्रिन् ! मम पुत्रः एव साम्राज्यं प्राप्नुयात्, अतः सोदरः श्रीकृष्णदेवरायः न जीवेत्’ इति तम् उक्तवान् राजा ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्