"सुग्रीवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
एकदा '''मायावी'''नामकराक्षसेन सह वाली एकस्यां गुहायां युद्धं कुर्वाण आसीत् | गुहातः रक्तप्रवाह आरब्धः | अग्रजः वाली स्वर्गस्थोऽभवदिति मत्वा सुग्रीवः तस्य उत्तरकर्म समासाद्य सिंहासनमधिरूढः | कतिपयकालानन्तरं गुहातः बहिरागत्य सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितः वाली अनुजेन सह युद्धमकरोत् | भयेन पलायितः सुग्रीवः ऋष्यमूकपर्वतमगच्छत् |
==श्रीरामसन्दर्शनम्==
[[File:Brooklyn Museum - Rama and Lakshmana Confer with Sugriva about the Search for Sita Page from a Dispersed Ramayana Series.jpg|thumb|राम लक्ष्मणाभ्यां सह सुग्रीवः]]
 
रावणेन अपहृतां सीतामन्विशन् यदा श्रीरामः '''ऋष्यमूक'''पर्वतमागतवान् तदा सुग्रीवस्य मैत्री अभवत्|सुग्रीवसाहाय्येन सीताशोध आरब्धः | हनूमता यदा लङ्कायां सीता दृष्टा तदा सुग्रीवसेना समुद्रस्य सेतुबन्धनं कृत्वा लङ्कां प्रविष्टा | '''रावणकुम्भकर्णाभ्यां''' सह सुग्रीवः युद्धं कृतवान् | श्रीरामसाहाय्येन अग्रजं वालिनं हतवान् |
 
==मरणम्==
श्रीरामस्य निर्याणावसरे अग्रजस्य पुत्राय '''अङ्गदाय''' किष्किन्धायां राज्याभिषेकं कृत्वा स्वयं दिव्यदेहधारी सन् सद्गतिं प्राप्तवान् |
"https://sa.wikipedia.org/wiki/सुग्रीवः" इत्यस्माद् प्रतिप्राप्तम्