"वाली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वाली सुग्रीवस्य'''सुग्रीव'''स्य अग्रजः | एकदा '''ऋक्षरजाः''' एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् | तं दृष्ट्वा आकृष्टः '''इन्द्रः''' वालिनः पिता |''' तारा''' अस्य पत्नी | '''अङ्गदः''' वालिनः पुत्रः | महापराक्रमवान् अयं एकवारं रावणमपि'''रावण'''मपि पराजितवानासीत् |
==वरप्राप्तिः==
वालिनः कृते देवेन्द्रः वररूपेण एकं सुवर्णहारं दत्तवान् आसीत् | तद् हारं धृत्वा युद्धार्थं यदि गच्छति तर्हि तत्पुरतः विद्यमानस्य विरोधिनः तदर्धं बलं वाली प्राप्नोति स्म |
==मुनिशापः==
एकदा मयासुरपुत्रः'''मयासुर'''पुत्रः दुन्दुभिनामकः'''दुन्दुभि'''नामकः दैत्यः महिषवेषं धृत्वा युद्धार्थं किष्किन्धामागतवान्'''किष्किन्धा'''मागतवान् | वाली तेन सह युद्धं कृत्वा मारितवान् | तस्य मृतशरीरं सुदूरं क्षिप्तवान् |ऋष्यमूकपर्वते'''ऋष्यमूक'''पर्वते मतङ्गनामा'''मतङ्ग'''नामा मुनिः तपः आचरन् आसीत् | वालिना क्षिप्तं शरीरं मुनेः आश्रमप्रदेशे पतितम् | कुपितः मुनिः,यदि ऋष्यमूकपर्वतं प्रति वालिनः आगमनं भवति तर्हि तस्य मरणं भवत्विति शापं ददाति |
==भ्रातृकलहः==
मायावीनामा'''मायावी'''नामा कश्चन असुरः वालिना सह युद्धार्थं किष्किन्धामागतवान् | तेन सह एकस्यां गुहायां वाली युद्धं कुर्वाण आसीत् |युद्धं बहुकालपर्यन्तं प्राचलत् | सुग्रीवः गुहायाः बहिः प्रतीक्षमाणः आसीत्|गुहातः रक्तप्रवाह आरब्धः | अग्रजः मृत इति विचिन्त्य सुग्रीवः किष्किन्धामागत्य सिंहासनमधिरूढः | किञ्चित्कालानन्तरं प्रत्यागतः वाली सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितो भूत्वा अनुजं सुग्रीवं सिंहासनात् आकृष्य कलहमारब्धवान् | वालिनः भयात् सुग्रीवः ऋष्यमूकपर्वतं प्रति पलायितवान् | वाली सुग्रीवस्य पत्न्या रुमया सह रममाण आसीत् |
==वालीवधः==
सीतापहरणानन्तरं सीतामन्विषन् ऋष्यमूकपर्वतमागतस्य''' श्रीरामचन्द्रस्य''' सुग्रीवेण सह मेलनमभवत् |तेन सह मैत्री च समजायत | सीतान्वेषणे सुग्रीवः वानरसैन्येन सह स्वस्य साहाय्यमाचरितवान् | अग्रजं वालिनं हन्तुं सुग्रीवः श्रीरामस्य साहाय्यं प्रार्थितवान् | श्रीरामः सुग्रीवमुखात् वालिनः बलविषयिकां वार्तां ज्ञात्वा वालिनं युद्धार्थमाह्वातुं प्रेरितवान् | वालीसुग्रीवयोः युद्धावसरे श्रीरामः निलीय शराघातेन वालिनः वधं समाचरितवान् |
"https://sa.wikipedia.org/wiki/वाली" इत्यस्माद् प्रतिप्राप्तम्