"वाली" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ७:
'''मायावी'''नामा कश्चन असुरः वालिना सह युद्धार्थं किष्किन्धामागतवान् | तेन सह एकस्यां गुहायां वाली युद्धं कुर्वाण आसीत् |युद्धं बहुकालपर्यन्तं प्राचलत् | सुग्रीवः गुहायाः बहिः प्रतीक्षमाणः आसीत्|गुहातः रक्तप्रवाह आरब्धः | अग्रजः मृत इति विचिन्त्य सुग्रीवः किष्किन्धामागत्य सिंहासनमधिरूढः | किञ्चित्कालानन्तरं प्रत्यागतः वाली सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितो भूत्वा अनुजं सुग्रीवं सिंहासनात् आकृष्य कलहमारब्धवान् | वालिनः भयात् सुग्रीवः ऋष्यमूकपर्वतं प्रति पलायितवान् | वाली सुग्रीवस्य पत्न्या रुमया सह रममाण आसीत् |
==वालीवधः==
सीतापहरणानन्तरं सीतामन्विषन् ऋष्यमूकपर्वतमागतस्य''' श्रीरामचन्द्रस्य''' सुग्रीवेण सह मेलनमभवत् |तेन सह मैत्री च समजायत | सीतान्वेषणे सुग्रीवः वानरसैन्येन सह स्वस्य साहाय्यमाचरितवान् | अग्रजं वालिनं हन्तुं सुग्रीवः श्रीरामस्य साहाय्यं प्रार्थितवान् | श्रीरामः सुग्रीवमुखात् वालिनः बलविषयिकां वार्तां ज्ञात्वा वालिनं युद्धार्थमाह्वातुं प्रेरितवान् | वालीसुग्रीवयोः युद्धावसरे श्रीरामः निलीय शराघातेन वालिनः वधं समाचरितवान् |[[File:Stone bas relief at Banteay Srei in Cambodia.jpg|thumb|काम्बोडियादेशस्य शिल्पकला | मध्ये वालीसुग्रीवौ युद्धं कुरुतः | तत्पार्श्वे रामः शरप्रयोगं कुर्वाणः दृश्यते | ]]
"https://sa.wikipedia.org/wiki/वाली" इत्यस्माद् प्रतिप्राप्तम्