"दशरथः" इत्यस्य संस्करणे भेदः
Content deleted Content added
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुख... नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते | '''अयोध्या'''धिपः अयम् '''अज'''महाराजस्य पुत्रः| दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम| '''कोसल'''देशस्य '''
==कैकेय्याः कृते दशरथेन दत्तः वरः==
पुरा '''तिमिध्वज'''नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् | देवताः पराजिताः अभवन् | तदा दशरथस्य साहाय्यं याचितवन्तः | दशरथः कैकेय्या सह देवलोकं गतवान् | तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् | तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् | जागृतः दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् | आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् |
पङ्क्तिः ५:
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये '''ताण्डव'''नामकं मुनिं मृगभ्रान्त्या मारितवान् | तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् |
==पुत्रकामेष्टिः==
दशरथस्य पुत्रसन्तानं नासीत् | अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् |
==श्रीरामादीनां विवाहः ==
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् | '''जनक'''तनयां '''सीतां''' श्रीरामचन्द्रः,'''ऊर्मिलां''' लक्ष्मणश्च परिणीतवन्तौ | जनकस्य अनुजः '''कुशध्वजः''' | तस्य पुत्रीं '''माण्डवीं''' भरतः ,'''श्रुतकीर्तिं''' लक्ष्मणश्च परिणीतवन्तौ |
==
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत् ,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् |
|