"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम् | दर्शनं]] चार्वाकदर्शनम् इति | [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते | चार्वाकदर्शनस्य् स्वतन्त्रग्रन्थः इदानीं न उपलभ्यते | चार्वाकदर्शनं, धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति| चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति | किन्तु एतावता न् निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति | अहिंसा, शान्तिप्रियता, यध्दनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः |
अस्य् दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम् दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं
किमपि नास्ति इति ते वदन्ति । प्रलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य् देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद आत्मा नास्ति ।‘यावज्जीवेत् सुखं जीवेत्, ऋणं कृत्वा घृतं पिबेत्’ इति ते विश्वसन्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षम् तेषाम् एकमात्रं प्रमाणम् ॥
==आधाराः==
{{reflist}}
[[श्रेणी: भारतीयतत्त्वशास्त्रम् ]]
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्