==विष्णुपुराणम्==
==विष्णुपुराणस्य विषयव्याप्तिः==
इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य[[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते । क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-प्रह्लादकथा[[प्रह्लादः|प्रह्लाद]]कथा, जडभरतस्य[[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-मन्वन्तराणां[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, वर्णाश्रमधर्माणां[[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, संस्काराणां[[संस्काराः|संस्कारा]]णां, श्राद्धकल्पानां[[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, कौरवपाण्डवानां[[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । कृष्णकथा[[कृष्णः|कृष्ण]]कथा विवृता अस्ति । इदं पुराणरत्नम् इति प्रसिद्धम् । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति । अत्र निरूपितः [[मौर्यवंशः|मौर्येतिहासः]] विश्वासयोग्यः इति विन्सेण्ट् स्मित् स्व लेखे उल्लिखितवान् अस्ति ।
==भाषाशैली==
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । [[आर्षप्रयोगाः]] अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । [[ध्रुवः|ध्रुवचरित्रं]], प्रह्लादचरित्रं[[प्रह्लादः|प्रह्लाद]]चरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । श्रीकृष्णचरित्रम्[[श्रीकृष्णः|श्रीकृष्ण]]चरित्रम् अपि मनोरमं विद्यते ।
==विषयविभागः==
पराशरमुनिः[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लॊकाः विद्यन्ते ।
===प्रथामांशः===
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति ।
===द्वितीयांशः===
भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।
===तृतीयांशः===
मनुपुत्राणां वर्णनं, चतुर्युगानुसारं[[चतुर्युगाः|चतुर्युगा]]नुसारं विभिन्नव्यासाः, चतुर्वेदानां[[चतुर्वेदाः|चतुर्वेदा]]नां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।
===चतुर्थांशः===
वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, श्रीरामस्य[[श्रीरामः|श्रीराम]]स्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।
===पञ्चमांशः===
श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।
::जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
::धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७
श्रेणी:पुराणसाहित्यम्
श्रेणी:धार्मिकसाहित्यम्
[[Category:विष्णुपुराणम्]]
|