"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==विष्णुपुराणम्==
[[File:Vishnu21.JPG|thumb| परमात्मा [[विष्णुः]], भारतम् ]]
 
अष्टादशसु पुराणेषु अन्यतमं वर्तते विष्णुपुराणम् । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते । क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति । इदं पुराणरत्नम् इति प्रसिद्धम् । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति । अत्र निरूपितः [[मौर्यवंशः|मौर्येतिहासः]] विश्वासयोग्यः इति विन्सेण्ट् स्मित् स्व लेखे उल्लिखितवान् अस्ति ।
==भाषाशैली==
Line ७ ⟶ ८:
[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लॊकाः विद्यन्ते ।
===प्रथामांशः===
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति ।
===द्वितीयांशः===
भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्