Content deleted Content added
|
|
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। तादृश पञ्चमहाकाव्येषु एकतमस्यअन्यतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
"::श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
::श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
::तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
::काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।"
[[वर्गः:काव्यम्]]
श्रीहर्षः कान्यकुब्जस्यकन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् |। विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते |। तस्य पिता श्रीहरिः |। माता मामल्लदेवी |। श्रीहर्षः द्वादशशतके आसीत् |। तर्कव्याकरण - वेदान्तादिषुतर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः |। सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म |। श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् |। नलदमयन्त्योः कथा अत्र वर्णिता अस्ति |। श्रीहर्षस्य भाषा अत्यन्तं प्रौढा |। शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते |।
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते |। परन्तु ते सर्वे न उपलभ्यन्ते |। खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते |। तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते |।
|