"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|दूरदर्शनम्]]
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तॆषु '''दूरदर्शनम्''' अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।
==कथं कार्यं करोति ?==
ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां प्रसारणम् अनेकेषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलचित्रच्छायाग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तिबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तिबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् प्रसारसाधनात् अन्तरिक्षे विमुक्ताः भवन्ति ।
द्वितीयस्तरे आकाशे विमुक्ताः विद्युदयस्कान्ततरङ्गाः सर्वतः प्रयाणं कुर्वन्तः दूरदर्शनेषु विद्यमानैः ग्रहणसाधनैः आकृष्टाः भवन्ति । ततः एते तरङ्गाः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्य कस्याश्चित् विशिष्टतन्त्र्याः द्वारेण दूरदर्शनं प्रति नीताः भवन्ति । दूरदर्शनयन्त्रम् इमान् विद्युत्प्रवाहान् काभिश्चित् पद्धतीभिः समीकृत्य "केथोड्-किरणनालिका", "विद्युदणुप्रक्षेपकम्" इत्यनयोः साहाय्येन कान्तिबिन्दून् करोति । दूरदर्शनस्य यवनिकायाः अन्यः भागः प्लोरोस्सेण्ट् सामग्रीनिर्मितैः बिन्दुसहस्रैः आवृतः भवति । यदा एषा सामग्री विद्युदणुभिः सारिता भवति तदा कान्तिः बहिर्गता भवति । एते कान्तिबिन्दवः तावता वेगेन प्रत्यक्षीभवन्ति, येन वयं दूरदर्शनस्य यवनिकायां सम्पूर्णम् चित्रं द्रष्टुं शक्नुमः ।
ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।
==दूरदर्शनतः लाभाः==
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ । अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति ।
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । एवंयॆ दूरदर्शनतःदूरदर्शनकार्यक्रमाः बहुविधाःप्रदर्श्यन्तॆ लाभाःतॆषु सन्तिउत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति।
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः । भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत्
किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति ।धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति।
 
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः । भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत् ।
 
 
"https://sa.wikipedia.org/wiki/दूरदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्