"नीलगिरिपर्वतः" इत्यस्य संस्करणे भेदः

'''भूस्वर्गः - नीलगिरिः''' दक्षिणभारतस्य पश्चिमघट... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

११:१३, ३० जुलै २०११ इत्यस्य संस्करणं

भूस्वर्गः - नीलगिरिः

दक्षिणभारतस्य पश्चिमघट्टप्रदेशे नीलगिरिपर्वतः विराजते । एतं पर्वतं परितः स्थिते हरिद्वर्णमये प्रदेशे त्रिंशद्विधानि वन्यपुष्पाणि प्रभूततया विकसन्ति । ’नीलगिरिटापर्’ नामकस्य अजस्य निवासस्थानम् अस्ति नीलगिरिपर्वतः । एत्तज्जातीयाः वन्याः सहस्त्रसङ्ख्यामात्राणि एव सन्ति ।

द्वादशसु वर्षेषु सकृत् पुष्प्यति ’कुरिञ्जि’-सस्यम् । तत् च सस्यम् अत्रैव अस्ति । यदा तानि सस्यानि पुष्प्यन्ति तदा एषः पर्वतः समग्रः नीलमयः भवति । अत्र सारङ्गाः, व्याघ्राः, तरक्षवः च निवसन्ति । एतस्मिन् पर्वतप्रदेशे ’बाल्सम्जातीयाः’ विविधवृक्षाः प्राधान्येन वर्धन्ते । एतेषां शाखाः शैवालेन आवृताः भवन्ति । एतेषु वृक्षेषु चित्रविचित्रवर्णीयानि पुष्पाणि विकसन्ति । नीलगिरिपर्वतस्य प्राकृतिकं सौन्दर्यं तावत् द्रष्टॄन् आनन्दसागरे निमज्जयति । अतः एव केचन नीलगिरिपर्वतं ’भूस्वर्गः’ इति निर्दिशन्ति ।

"https://sa.wikipedia.org/w/index.php?title=नीलगिरिपर्वतः&oldid=123160" इत्यस्माद् प्रतिप्राप्तम्