"भरतनाट्यम्" इत्यस्य संस्करणे भेदः

(लघु) robot Removing: hi:भरतनाट्यम्‌ (missing)
No edit summary
पङ्क्तिः १:
[[Image:Bharatanatyam stamp.jpg|right|thumb|200px|Stamp issued in honour of Bharatanatyam]] [[Image:Bharatanatyam 3.jpg|thumb|200px|right|Bharatanatyam dancer]]
एषा भारतस्य शास्त्रियनृत्यपद्धतिः अस्ति। भरतनाट्यस्य आकर्षकं मनमोहकं पदविन्यासं दृष्ट्वा को वा रसिकः प्रमुदितान्तरङ्गः न स्यात्? भरतनाट्यम् एतत् स्वयं ब्रह्मणा एव सृष्टम्।
इदं भारतस्य शास्त्रीय नृत्य पद्धति अस्ति।
 
=='''पृष्ठभूमिका'''==
 
कदाचित् देवाः गन्धर्वाः च ब्रह्मणः समीपं गत्वा निवेदितवन्तः-"सर्वाणि अपि इन्द्रियाणि सन्तुष्टानि यथा स्युः तथा कश्चन सुन्दरः पञ्चमः वेदः स्रष्टव्यः" इति। तदा ब्रह्मा चतुर्भ्यः अपि वेदेभ्यः एकैकम् अंशम् उद्धृत्य नाट्यवेदं सृष्टवान्। ऋग्वेदात् पाठ्यं, यजुर्वेदतः अभिनयं, सामवेदतः सङ्गीतम्, अथर्ववेदतः रसं च स्वीकृत्य नाट्यवेदं रचितवान् सः।
ततः एतं भरतमुनये दत्त्वा सः उक्तवान्-"एतत् मानवान् बोधयतु" इति। रूपक-नाट्य-सङ्गीतादि-तन्त्राणि यॊजयित्वा [[भरतमुनिः]] नाट्यशास्त्रं रचितवान्। अतः एतत् नाट्यं भरतनाट्यत्वेन प्रसिद्धं जातम्।
 
=='''प्रकाराः'''==
 
भरतनाट्यम् अतीप्राचीनः भारतीयः नृत्यप्रकारः। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिळुनाडुराज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। '[[शिलप्प्दिकारं]]' '[[मणिमेखलै]]' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती '[[सङ्गं]]'कालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं '''ताण्डवनृत्यम्''' इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते-'''आनन्दताण्डवम्''' इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते-'''रुद्रतण्डवम्''' इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् '''लास्यम्''' इति उच्यते।
 
=='''इतिहासः'''==
 
भरतनाट्यवसरे यानि गीतानि गीयन्ते तेषां विषयः पुराणकथादिभ्यः चीयते। यः गीतानि गायति सः उच्यते 'नट्टुवनर्' इति। मृदङ्गः वीणाविशॆषः च गानावसरे अन्याभ्यां वाद्यते।
प्रायः पूर्वं देवदास्यः भरतनाट्यस्य प्रदर्शनं कुर्वन्ति स्म। राजास्थानेषु राजनर्तक्यः एतत् नृत्यं दर्शयन्ति स्म। बहवः तमिळुनाडुराजाः एतस्य नृत्यस्य प्रोत्साहनं कृतवन्तः।
दौर्भाग्यवशात् विंशतिशतकस्य आरम्भकाले एतस्य नृत्यप्रकारस्य विशेषह्रासः दृष्टः। शासननियमैः देवदासीपद्धत्याः निवारणार्थं प्रयासाः प्रवृत्ताः । किन्तु भरतनाट्यप्रियाणां बहूनां परिश्रमस्य फलतः अनन्तरकाले तस्य वृद्धिः जाता। स्वातन्त्र्योत्तरकाले ई कृष्णाय्यर् बालसरस्वती,रुक्मिणी अरुण्डेल्, कलानिधिः,शान्ताराव् इत्यादयः एतस्य विकासार्थं विशेषपरिश्रमं कृतवन्तः।
 
=='''शब्दनिष्पत्तिः'''==
 
भरतनाट्ये यानि अक्षराणि तेषु '''भाव'''शब्दात् भकारः, '''राग'''शब्दात् रकारः, '''ताल'''शब्दात् तकारः च स्वीकृतः। एवं भरतनाट्ये भाव-राग-ताल-नाट्यानां सङ्गमः भवति।
 
=='''विशिष्टाः प्रक्रियाः'''==
 
* रङ्गप्रवेशः- ऎदम्प्राथम्येन सार्वजनिकतया नृत्यं यत् प्रदर्शयति तस्य विशेषमहत्वं भवति। '''रङ्गप्रवेशः''' इति तस्य नाम। तमिळुभाषया एषः '''आरङ्ग्रेटम्''' इति उच्यते।
* रङ्गप्रवेशसमये आदौ '''नूपुरपूजा''' ('''सालङ्गैपूजा''' इति तमिळुपदम्) क्रियते। यावत् रङ्गप्रवेशः न भवति तावत् नूपुरधारणम् अनुमन्यते स्म प्राचीनकाले।
 
==पश्य==
[[भारतीयकलाः]]
*[[भरत मुनि]]
[[भारतीयनृत्यप्रकाराः]]
[[भरतमुनिः]]
 
[[en:Bharatanatyam]]
"https://sa.wikipedia.org/wiki/भरतनाट्यम्" इत्यस्माद् प्रतिप्राप्तम्