"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् उपनिषत् इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
'''उपनिषत्‍सु''' [[वेदान्‍त]]सार: अस्‍ति| श्रवण-मनन-निदिध्‍यासादिभि: अस्‍माभि:
==उपनिषन्नाम किम् ?==
वेदान्‍तसार: अनुभवगोचरः भवति|
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यास
ङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
==उपनिषद्भागाः==
सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतस्मात् अनेकाः उपनिषदः । तत्र प्रसिद्धाः अष्टोत्तरशतं चेति ज्ञायते । तथापि उपलभ्यमानासु १०८ उपनिषत्सु दशोपनिषदः सुप्रसिद्धाः श्रीमदाचार्यशङ्करभगवत्पादानां भाषैः अलङ्कृताश्च ।
::'''ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरि'''
::'''ऎतरेयं च छान्दोग्यं बृहदारण्यकं दश ॥''' इति ।
==उपनिषत्प्रतिपादितानि परमतत्त्वानि==
न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्तादिषु दर्शनेषु तत्तन्मतस्थापकप्रमाणानि उपनिषत्तत्त्ववाक्यान्येव । आधिभौतिक-आधिदैविक-आध्यात्मिकेभ्यः त्रिभ्यः दुःखेभ्यः मोचनं प्राप्य चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षेषु जीवनस्य आत्यन्तिकलक्ष्यभूतस्य मोक्षस्य प्राप्त्यर्थं यानि पालनीयानि कार्याणि सन्ति तान्येव उपनिष्त्परमतत्त्वानि ।
''''ब्रह्मसत्यं जगन्मिथ्या'''' ''''जीवो ब्रह्मैव नापरः'''' इत्यतः ''''सत्यं ज्ञानमनन्तं ब्रह्म'''' ''''सर्वं खल्विदं ब्रह्म'''' ''''प्रज्ञानं ब्रह्म'''' ''''स नायमात्मा ब्रह्मविज्ञानमयो'''' इत्यादिभिः उपनिषद्वाक्यैः ब्रह्मनिर्देशं कृत्वा तत्त्वमसि इति बोधयित्वा ''''अहं ब्रह्मास्मि'''' इति परमलक्ष्यं प्रापयति साधकं ब्रह्मविद्या । सर्वोपनिषदां तत्त्वं जीवब्रह्मैक्यमेव हि इत्यलं विस्तरेण ।
==उपसंहारः==
जीवनस्य समग्रोन्नतिं काङ्क्ष्यमाणाः उपनिष्द्ग्रन्थाः न केवलं मानुष्यकस्य आध्यात्मिकोन्नतिं प्रतिपादयन्ति अपि तु भौतिकशास्त्रं गणितशास्त्रं जीवशास्त्रं सामूहिकशास्त्रं भूमिशास्त्रम् आरोग्यशास्त्रं इत्यादीनां तत्त्वानि अपि तत्र तत्र उपन्यस्यन्ति । उदाहरणम् -
:'गणिते' - पूर्णमदः पूर्णमिदं.......... इति मन्त्रेण सून्यसङ्ख्यायाः गणितवैशिष्ट्यं प्रतिपाद्यते । '०+०=०, ०-०=०, ०X०=०' इत्यादि ।
मुक्तिकोपनिषदि १०८ उपनिषदां नामानि सन्ति यत्र ऋग्वेदस्य १०, शुक्लयजुर्वेदस्य १६, कृष्णयजुर्वेदस्य ३१, सामवेदस्य १६, अथर्ववेदस्य ३२ उपनिषदः सन्ति । काश्चन वेदान्तसिद्धान्तप्रतिपादिकाः काश्चन योगोपदेशिकाः काश्चन संन्यासवर्णनपरकाः काश्चन विष्णोः शिवस्य श्क्तेः वा प्रशंसिकाः ।
 
:मनस: सकला: कार्यकलापा: येन जायन्‍ते, यस्‍मिंश्‍च भवन्‍ति, यस्‍मिन्‌ लयं
प्राप्‍नुवन्‍ति च स: मानसिकशक्तिमूल: एव आत्‍मा इति वदन्‍ति उपनिषद:|
 
 
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्