"रामेश्वरम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षे... नवीन पृष्ठं निर्मीत अस्ती)
 
 
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । श्रीलङ्कायाः राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमान् प्रत्येकमपि ॥॥॥। १,०००पादमितं दीर्घं, ६०० पादमितं विशालं, १५ पादमितम् उन्नतं च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः फर्ग्युसन् "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः भारते एव अत्यन्तं बृहत् मन्दिरम् ।
 
रामेश्वरमन्दिरस्य पुरतः स्वर्णस्तम्भः अस्ति । तत्समिपे रामेण संस्थापितः १३ पादमितोन्नतः, ८ पादमितं दीर्घः, ९ पादमितं विशालः धवलवर्णस्य महानन्दिविग्रहः अस्ति । तस्य विग्रहस्य वामभागे हनुमतः विग्रहः, दक्षिणभागे "शिवतीर्थ"नामिका पुष्करणी च अस्ति । अस्य मन्दिरस्य परिसरे सर्वतीर्थाणि अपि सन्ति इति विश्वासः अस्माकम् । रामेश्वरमन्दिरस्य ॥॥। उत्तरभागे हनुमता कैलासतः आनीतं शिवलिङ्गम् अस्ति । रामेश्वरलिङ्गं शेषस्य महाफणाकारकम् अस्ति । पार्श्वयोः सीतालक्ष्मणयोः स्वर्णविग्रहौ स्तः । अगस्त्येन पूजितम् अगस्त्येश्वरलिङ्गम् अपि अस्ति अत्र । पर्वत्याः, षण्मुखस्य, गणेशस्य, नन्दिकेश्वरस्य, विशालाक्ष्याः एवं बहूनां देवानां मन्दिराणि सन्ति अत्र ।
 
अयं द्वीपः कृष्णस्य शङ्खस्य "पाञ्चजन्य"स्य आकारकः अस्ति । अस्मिन् एव द्वीपे रामः अखण्डं दिनत्रयम् आदिजगन्नाथम् उद्दिश्य तपः आचर्य दिव्यचापं प्राप्तवान् । एतत्स्थानं "दर्भशयनम्" इति उच्यते । रामेश्वरतः सार्धैकमैल् दूरे पर्वतस्य उपरि सुन्दरं किञ्चित् मन्दिरम् अस्ति, तत्र रामस्य पादचिह्नम् अस्ति । रामेश्वरस्य दक्षिणभागे "धनुष्कोटि"नामकं स्थानम् अस्ति । रामः तस्मिन् स्थाने एव धनुषः अग्रभागेण लङ्कां प्रति निर्मितं सेतुम् अनाशयत् इति । रावणसंहारानन्तरं विभीषणः लङ्कायाः राजा अभवत् । वानरैः निर्मितसेतुद्वारा अन्ये लङ्कायाः उपरि आक्रमणं कुर्युः इति विभीषणस्य भयम् अभवत् । लङ्काम् आक्रमणेभ्यः रक्षितुं, मित्रस्य विभीषणस्य भयं दूरीकर्तुं च रामः तं सेतुम् एव अनाशयत् इति । तस्मिन् स्थाने एव कोदण्डराममन्दिरम् अस्ति । १९६४तमे वर्षे सञ्जातात् झञ्झावातकारणात् एतदेकं मन्दिरं विहाय अन्यत्सर्वम् अपि नष्टम् अभवत् ।
 
वर्षपूर्णं यात्रिकाः आगच्छन्ति रामेश्वरमन्दिरं प्रति । १९४७तमे वर्षे, १९५७तमे वर्षे च सञ्जाते कुम्भाभिषेके देशस्य सर्वकोणेभ्यः अपि जनाः अत्र सम्मिलिताः आसन् । शारदा माता अपि अत्र आगतवती आसीत् ।
१,७०३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/125479" इत्यस्माद् प्रतिप्राप्तम्