"चित्रदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

==विस्तीर्णता== ८३८८ च.कि.मी चित्रदुर्गमण्डलं कर्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
==उपमण्डलानि ६==
चित्रदुर्गं, चळ्ळकेरे, होसदुर्गं, हिरियूरु, होळलकेरे, मोळकाल्मूरु.
==नद्यः==
[[वेदावती]], [[चिन्नहगरि]]
==विस्तीर्णता==
८३८८ च.कि.मी
चित्रदुर्गमण्डलं कर्णाटकस्य प्रसिद्धम् ऐतिहासिकं स्थानम् अस्ति । अस्मिन् प्रदेशे विद्यमानस्य विचित्रं प्राकृतिकं दुर्गं दृष्ट्वा जनाः विचित्रदुर्गम् इति कथयन्ति स्म । कालान्तरेण चित्रदुर्गम् इति सञ्जातम् ।
==उपमण्डलानि ६==
चित्रदुर्गं, चळ्ळकेरे, हिरियूरु, मोळकाल्मूरु, होसदुर्गं, होळल्केरे इति षट् उपमण्डलानि अस्मिन् सन्ति ।
==इतिहासः==
मण्डलमेतत् ऐतिहासिकमहत्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानं सप्तावर्तं दुर्गं पर्यटकान् आकर्षयति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ”’ओबण्णः” अथवा ”’मदकरिनायकः”’ । तस्य पुत्रः कस्तूरी- रङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।
चित्रदुर्गस्य नाम्ना सह संपृक्तं नाम ”’[[ओनके ओबव्वा]]याः”’ नाम । कन्नडदेशस्य शौर्यगाथासु अस्याः गाथा अपि अन्यतमा । मदकरिनायकस्य प्रशासनकाले, दुर्गं प्रविशतः महम्मदीय नृपस्य हैदरालेः सैनिकान् मारयित्वा शौर्यं प्रदर्शितवती । दुर्गं वैरिहस्तात् रक्षितवती च ।
==क्षेत्राणि==
चित्रदुर्गं, गविरङ्गनाथपुरं, हालुरामेश्वरः, सण्णक्किबागूरु, चिक्केरहळ्ळि , हिरेकोळ दशरथरामेश्वरः, हिरियूरु, नायकनहट्टि|
==प्रेक्षणीयानि स्थलानि==
एळुसुत्तिनकोटे, चन्द्रवळ्ळिय तोट, मुरुघामठः, उप्पारहट्टि, जोगिमट्टि, वाणीविलाससागरः च प्रसिद्धानि यात्रास्थानानि सन्ति ।
चित्रदुर्गम्- (०८२९४) नगरे पर्वतप्रदेशे च अनेके देवालयाः सन्ति । पर्वतप्रदेशे उच्यङ्गम्मादेवालयः शक्तिदेवतायाः स्थानम् । चित्रदुर्गस्य रक्षकाणाम् आराध्या च अस्याः उत्सवाम्बा देवालयः इत्यपि कथयन्ति । बनशङ्करी एकनाथेश्वरी च बृहच्छिलानाम् अधः गुहायां स्तः । भीमेन स्थापिता हिडिम्बेश्वरी च अत्र अस्ति ।
सम्पिगे सिद्धेश्वरी (१३२८) देवालयः अपूर्वः अत्र प्रसिद्धः शिवलिङ्गः अस्ति । प्राचीननायकानां राज्याभिषेकः अत्रैव प्रचलति स्म । चन्द्रवल्यां पाण्डवैः अचिर्ताः शिवलिङगाः सन्ति । अङ्कलिमठस्य गुहायां ऋषयः तपः आचरितवन्तः । तत्र गमनार्थं सर्पवत् सर्पणम् आवश्यकम् अस्ति । दावणगेरेमार्गे चित्रदुर्गरक्षकानां गुरुपीठः मुरुघामठः अस्ति ।
चित्रदुर्गतः ६ कि.मी दूरे आडुमल्लेश्वरदेवालयः अस्ति। सिरिगेरेप्रदेशे [[श्री तरळबाळुमठः]] अस्ति अत्र विद्यादानं अन्नदानं च प्रासिद्धम् । [[तरळबाळु हुण्णिमे]] इति अत्र विशेषपर्व भवति ।
मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति| मार्गः -बेङ्गलूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति |
==प्रसिद्धव्यक्तयः==
[[डा. शिवमूर्तिस्वामिनः सिरिगेरे]] । [[एस्. निजलिङ्गप्पः]] । [[शिवमूर्तिशरणः]] । [[प्रो.बि.राजशेखरप्पः]] । [[बि.एल्.वेणु]] । [[जि.दुर्गप्पः]] । [[श्रीराघवेन्द्रस्वामी मल्लाडिहळ्ळी]] । [[त.रा.सुब्बराव्]] । [[पि.आर्.तिप्पेस्वामी]] । [[बेळगेरे कृष्णशास्त्री]] । [[बेळगेरे जानकम्मा]] । [[सिरियज्जि]] । [[डा. बञ्जगेरे जयप्रकाशः]] । [[डोटा रामः]] । [[डा. एच्. आर्. चन्द्रशेखर]] । इत्यादयः ।
"https://sa.wikipedia.org/wiki/चित्रदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्