"वाल्मीकिः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ५:
==रत्नाकरः वाल्मीकिरभूत्.....==
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे '''नारदमहर्षिः'''समागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । किन्तु नारदमहर्षिः तन्मुखे विशिष्टं तेजः अवलोक्य रत्नाकरेण सह प्रीत्या सम्भषणं कृतवान् । चौर्यं कृत्वा धनसम्पादनस्य उद्देशं पृष्टवान् । तदा गृहजनानां सन्तोषार्थं चौर्यं कृत्वा जीवन् अस्मीति रत्नाकरः प्रत्युत्तरं दत्तवान् । तदा चौर्यकर्मणः पापविषये नारदः रत्नाकरं बोधयित्वा,किमिदं पापफलं गृहजना: अपि भोक्तुं सिद्धाः? इति नारदः पुनः प्रश्नं पृच्छति । रत्नाकरः निरुत्तरो भूत्वा गृहं प्रतिनिवर्तते । नारदेन पृष्टं प्रश्नं गृहजनानां सकाशे अपृच्छत् । परं गृहजनाः पापभाजः भवितुं नेष्टवन्तः। रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते । पुनः नारदमहर्षेः सकाशं गत्वा जीवने स्वकृतदोषार्थं क्षमां याचते । नारदः सन्मार्गे गमनम् उपदिश्य रत्नाकराय मन्त्रोपदेशं कृतवान् । अनन्तरं रत्नाकरः नारदेन उपदिष्टं मन्त्रमनुसृत्य तपः कर्तुमारब्धवान् । बहोः कालं यावत् तपः कृतवतः तस्योपरि वल्मीकः प्रवृद्धः । अनन्तरं वल्मीकात् बहिरागत इति हेतोः तस्य 'वाल्मीकिः' इति नाम्ना प्रसिद्धोऽभूत्
 
==शोकः श्लोकत्वमागतः==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्