"चिक्कबळ्ळापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''चिक्कबल्लापुर'''मण्डलं [[कर्णाटक]]राज्ये स्थितं किञ्चन मण्डलम् । नूतनतया निर्मितेषु मण्डलेषु इदम् अन्यतमम् अस्ति । पूर्वमेतत् कोलारमण्डलस्य उपमण्डलम् आसीत् । क्रि.श. २००८ तमे वर्षे कोलारमण्डलस्य प्रशासनकेन्द्रमासीत् । एतस्य पूर्वतनं नाम चिन्नबळ्ळापुरम् इति आसीत् । अस्य मण्डलकेन्द्रं बेङ्गलूरुतः ५६ कि.मी दूरे वर्तते । राष्ट्रियमहामार्गः-७ सञ्चारार्थं सुकरः अस्ति । २० कि.मी. दूरे एव अन्ताराष्ट्रीयं विमाननिस्थानम् अस्ति ।
'''चिक्कबल्लापुर'''मण्डलं कर्णाटकराज्ये स्थितं किञ्चन मण्डलम्।
==विस्तीर्णता==
उप्मण्डलानि - ६ चिक्कबळ्ळापुर, शिड्लघट्ट, चिन्तामणि, बागेपळ्ळी, गुडिबण्डे, गौरीबिदनूरु ।
४५२४ च.कि.मी मिता |
क्षेत्राणि -कैवार, नन्दिबेट्ट, रङ्गस्थळ, अगलगुर्कि, बूरगमाकल हळ्ळी, कोणकोण्टलु सन्तेबिदनूरु, विदुराश्वत्थ गडिदं , मिट्टेमरी
==इतिहासः==
नद्यः -[[उत्तरपिनाकिनी]], [[पालार]], [[चित्रावती]], [[पापघ्नी]]
विजयनगरसामन्तराजः मरिगौडा अत्र दुर्गं निर्मितवान् इति प्रतीतिः अस्ति । कालक्रमेण बैचेगौडः एतस्य प्रदेशस्य शासनं कृतवान् । ततः अनतिदूरे विद्यमानः नन्दिदेवालयः सनातनः अस्ति । गङ्गकदम्बाभ्यां पूर्वतनं शिलाशासनम् अत्र अस्ति । आङ्लाधिकारी कार्नावालिस् अपि अत्र कानिचन दिनानि वासं कृतवान् इति ज्ञायते । इतः २५ कि.मी. दूरे स्थिते माकिरेड्डीपल्लिमध्ये शोभमानः मुत्तेत्तरायस्वामिदेवालयः अपि बहुप्राचीनः वर्तते । अत्र श्रीरामनवमी सन्दर्भे विशेषोत्सवाः प्रचलन्ति ।
 
==उपमण्डलानि-६==
१.चिक्कबळ्ळापुरम् -मण्डलस्य केन्द्रनगरम् एतत् चेन्नकेशव-वीरभद्र- सुब्रह्मण्येश्वर-आञ्जनेयदेवालयाः सन्ति । रङ्गस्थळप्रदेशे चिक्कबळ्ळापुरतः ५ कि.मी दूरे श्रीरङ्गनाथ- स्वामिनः बृहत् देवालयः अस्ति । विजयनगरपूर्वकाले अथवा होय्सलराजानां काले निर्मितम् आकर्षकं कलात्मकं मन्दिरमेतत् । अत्र महाद्वारं शिलास्तम्भाः च मनोहराः सन्ति । मैसूरुराजः चामराजओडेयर् अस्य जीर्णोध्दारं कारितवान् ।
उप्मण्डलानि - ६ चिक्कबळ्ळापुर, शिड्लघट्ट, चिन्तामणि, बागेपळ्ळी, गुडिबण्डे, गौरीबिदनूरु ।
==नद्यः==
नद्यः -[[उत्तरपिनाकिनी]], [[पालार]], [[चित्रावती]], [[पापघ्नी]]
==क्षेत्राणि==
क्षेत्राणि -कैवार, नन्दिबेट्ट, रङ्गस्थळ, अगलगुर्कि, बूरगमाकल हळ्ळीबूरगमाकलहळ्ळी, कोणकोण्टलु सन्तेबिदनूरु, विदुराश्वत्थ गडिदं , मिट्टेमरी
==दर्शनीयानि स्थानानि==
[[नन्दिगिरिधाम]], [[चिन्तामणिशिल्पाः]], गुम्मनायकदुर्गः [[स्कन्दगिरिः]] गिरिचारणार्थं कलवारगिरिः योग्यः अस्ति [[सत्यसायीबाबाविश्वविद्यालयः]] अपि समीपे अस्ति ।
१.[[चिक्कबळ्ळापुरम्]] -मण्डलस्य केन्द्रनगरम् एतत् चेन्नकेशव-वीरभद्र- सुब्रह्मण्येश्वर-आञ्जनेयदेवालयाः सन्ति । रङ्गस्थळप्रदेशे चिक्कबळ्ळापुरतः ५ कि.मी दूरे श्रीरङ्गनाथ- स्वामिनः बृहत् देवालयः अस्ति । विजयनगरपूर्वकाले अथवा होय्सलराजानां काले निर्मितम् आकर्षकं कलात्मकं मन्दिरमेतत्मन्दिरम् एतत् । अत्र महाद्वारं शिलास्तम्भाः च मनोहराः सन्ति । मैसूरुराजः चामराजओडेयर् अस्य जीर्णोध्दारं कारितवान् ।
अस्य देवालयस्य पूर्वभागे शङ्ख-चक्रातीर्थे स्तः । पश्चिमे भागे ज्वालानरसिंहस्वामीपर्वतः अस्ति। मार्गशिरशुद्धपूर्णिमायाम् अत्र रथोत्सवः भवति । दसरा तथा रामनवमी समयः विशिष्टः ।
मार्गः- बेङ्गळूरुतः ६२ कि.मी. कोलारतः ७६ कि.मी राष्ट्रियराजमार्गः -६
Line १० ⟶ १९:
२. [[कैवार]]-
महाभारते एकचक्रनगरम् इति प्रसिद्धम् एतत् क्षेत्रं कैवारम् इति वदन्ति । लाक्षागृहदाहात् अरण्यम् आगताः पाण्डवाः अत्र किञ्चित्कालं निवासं कृतवन्तः । अत्र समीपे बकासुरः असीत् । तं भीमसेनः मारयित्वा कैवल्यगिरिगुहायां स्थापितवान् इति स्थलपुराणेन विदितम् अस्ति ।
मुख्यतया अमरनारायण मन्दिरम् अत्र प्रसिद्धम् । चमत्कारकर्ता [[ नारायणयोगी]] (कैवारतात इति प्रसिद्धः) प्रसिद्धसाधुः (१२८३) अत्र स्थितवान् । स्वस्य ११० तमे वर्षे महापुरुषः समाधिस्थः अभवत् । एतेन कथितं कालज्ञानविषयकं वचनं सत्यमभवत् ।
मार्गः-कोलारतः ४० कि.मी. बेङ्गळूरुतः ७१ कि.मी । चिन्तामणितः १२ कि.मी
 
Line २१ ⟶ ३०:
४. [[विदुराश्वत्थः]] -दोड्डकुरुगोडुसमीपे स्थितं विदुराश्वत्थक्षेत्रं पुराणप्रसिद्धमस्ति । महाभारतकाले धर्मात्मा विदुरः अत्र अश्वत्थवृक्षं संवर्धितवान् । अश्वत्यनारायणः इति ख्यातम् वृक्षं प्रदक्षिणीकृत्य सन्तानम् प्राप्नुवन्ति इति विश्वासः अस्ति । अत्र जनाः नागदेवतां प्रतिष्ठापयन्ति । अत्रैव श्रीवेङ्कटरमणमन्दिरं नवग्रहमन्दिरं च प्रसिद्धम् । चैत्रमासे पूर्णिमायाम् अत्र रथोत्सवः प्रचलति ।
मार्गः- चिक्कबळ्ळापुरतः ४२ कि.मी. गौरीबिदनूरुतः ६ कि.मी । वसतिभोजनादिसौलभ्यानि सन्ति ।
 
==प्रसिद्धाः व्यक्तयः==
[[सर्. एम्. विश्वेश्वरय्यः]] प्रसिद्धः तन्त्रज्ञः अस्य मण्डलस्य मुद्देनहळ्ळीसञ्जातः एव ।
 
 
 
"https://sa.wikipedia.org/wiki/चिक्कबळ्ळापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्