"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'हावेरीमण्डलं [[कर्णाटक]]राज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवतिभवति।
हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति। देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।
==विस्तीर्णता==
४६५७ च.कि.मी मिता ।
==उपमण्डलानि==
ब्याडगी, हानगल्, हावेरी, हिरेकेरूरु, राणेबेन्नूरु, सवणूरु,शिग्गांव च सप्त उपमण्डलानि सन्ति।
==नद्यः==
[[वरदा]], भद्रा ,तुङ्गा, [[धर्मा]], कुमुद्वती
==क्षेत्राणि==
हावेरी, कदरमण्दलगि, कर्जगि, होसरिति सवणूरु हानगल्, निळवळ्ळी, रट्टिहळ्ळि, एलगुरु, चिक्केरुरु, कागिनेले, गुत्तल
==अबलूरु (हिरेकेरुरु)==
सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । सर्वज्ञः स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहसवचनेषु द्र्ष्टुं शक्यम् अस्ति । [[सर्वज्ञः]] कर्णाटकस्य अपूर्वः कविः।
[[कागिनेले]] (हिरेकेरुरु)
भक्तः कविः ज्ञानी [[कनकदासः]] सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । कनकदासः ’नळचरित्रे’ ’रामधान्यचरित’ , ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् ।
अस्मिन् क्षेत्रे तिरुपतौ इव पूजादिकं प्रचलन्ति तिरुपतिं गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्रीलक्ष्मीनरसिंहः, मारुतिः. सरस्वती च सन्ति ।
मार्गः -हावेरीतः २६ कि.मी । ब्याडगितः २५ कि.मी । बेङ्गलूरुतः ३२३ कि.मी
==दर्शानीयानि स्थानानि==
राणेबेन्नूरुनगरस्य वन्यप्राणिधाम, [[कृष्णमृगानाम् अभयराण्यम्]] , पुरसिद्धेश्वरदेवस्थानं, श्रीहुक्केरीमठः, अबलूरु(सर्वज्ञस्य जन्मस्थानम्) , कागिनेले (कनकदासस्य जन्मस्थानम्), हावनूरु द्यामव्वमन्दिरम्, देवरगुड्ड, गङ्गीभावि, भैरनपाद, श्रीक्षेत्रगुड्डदमल्लापूर, श्री मूकप्पस्वामि श्रीहुच्चेश्वरमहस्वमिनां सन्निध्यम् च अत्र दर्शनीयानि स्थानानि ।
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्