"कोप्पळमण्डलम्" इत्यस्य संस्करणे भेदः

नव लेखनम्
 
No edit summary
पङ्क्तिः १:
'''कोप्पळकोप्पळमण्डलं मण्डलः'''कर्णाटकराज्ये कर्नाटकस्थितं प्रान्तॆकिञ्चन स्थितः एकः मण्डलः।मण्डलम्। अस्य मण्डलस्य केंद्रःकेन्द्रं [[कोप्पळ]]नगरम्। नगरः।
==विस्तीर्णता==
७१९० च.कि.मी. मिता।
[[कर्णाटक]]स्य नूतनमण्डलेषु एतत् अन्यतमम् अस्ति । इतिहासेन सांस्कृतिककारणेन च प्रसिद्धम् अस्ति । कन्नडस्य कविराजमार्गे ’विदित महा कोपण नगर’ इति अस्य मण्डलस्य ख्यातिः । तुङ्गभद्रायाः तीरस्य अनेगोन्दिप्रदेशे रामायणस्य प्रमुखाः घटनाः समभवन् । वालिसुग्रिवयोः वासप्रदेशः [[किष्किधा]] अत्र एव अस्ति । [[विजयनगरसाम्राज्य]]काले गजाः (आने) अत्रैव पाल्यन्ते स्म । क्रि.श. १५६५ तमे वर्षे सम्भूते रक्कसतङ्गडगीयुद्धे([[ताळीकोटे]]युद्धे) विजयनगरस्य पतनानन्तरं हम्पी-अनेगोन्दीप्रदेशयोः वैभवः महम्मदीयैः योधैः नामावशेषितः । साम्राडशोकस्य शिलाशासनपत्राणि, शिलायुगकालीनाः जनवासगुहाः च अत्र सन्ति । विजयनगरसाम्राज्यस्य प्रथमराजधानी अनेगोन्दी, फ्रेञ्चसहाय्येन टिप्पुनिर्मितं दुर्गं, हिन्दूमुसल्मानयोः भावैक्यस्य द्योतकं मर्दानदर्गा, किन्नाळकला, इत्यादिविषयाः कोप्पलस्य गरिमां वर्धयन्ति ।
==दर्शानीयानि स्थानानि==
अनेगोन्दीप्रदेशे विद्यमानाः गगनप्रासादः , दुर्गं, पम्पासरः, ६४ स्तम्भानां कृष्णदेवरायस्य समाधिः, नववृन्दावनम्, सूक्ष्मदारुकर्माणि, शिलाशिल्पयुक्तः श्रीगणपति देवालयः, श्री गविगङ्गनाथमन्दिरम्, शिलाचित्रितं सम्पूर्णरामायणं, शिल्पकलावैभवयुतः उच्चप्पय्यनमठः, चिन्तामणिशिवालयः, कनकगिरिः,विजयनगर-वास्तुशिल्पस्य दृष्टान्तः श्री कनकाचलपतिदेवालयः, राज्ञः वेङ्कटप्पनायकस्य निर्मितिः स्नानसरः, सुप्रसिद्धः कोटिलिङ्गयुक्तः पुरस्य सोमनाथेश्वरदेवालयः,कुकनूरु महामायादेवालयः, षष्ठविक्रमादित्यनिर्मितः कल्लिनाथेश्वरदेवालयः च दर्शनीयानि स्थानानि भवन्ति ।
==प्रसिद्धाः व्यक्तयः==
कल्लिनाथशास्त्री, पुराणिकचेन्नकविः, गविमठस्य श्रीमरिशान्तवीरस्वामी, सिद्धय्य पुराणिकः, अन्नदानय्य पुराणिकः, श्री बसवराज रायरेड्डि इत्यादयः अत्र सञ्जाताः प्रसिद्धाः जनाः ।
 
{{कर्नाटकस्य मण्डलाः}}
 
[[वर्गः:कर्नाटकस्य{{कर्णाटकस्य मण्डलाः]]}}
 
[[वर्गः:कर्णाटकस्य मण्डलानि]]
 
 
"https://sa.wikipedia.org/wiki/कोप्पळमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्