"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kodagu.svg|450px|right|कोडगुमण्डलम्]]
'''कोडगुमण्डलं''' कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति [[मडिकेरी]] नगरम् ।कोडगु (कूर्ग इति आङ्ग्लभाशया उच्यते) [[कर्णाटक]]स्य पश्चिमाद्रिशृङ्खलायाः एकं सुन्दरं विशिष्ठं च मण्डलम् अस्ति न्यूना जनस्ंख्या सर्वत्र सुन्दरपर्वतप्रदेशः हिमाच्छादितभूमिः निर्झराः, जलपाताः सर्वदृष्ट्या कोडगुप्रदेशः [[कर्णाटक]]स्य ’काश्मीरः’ इति कथयितुं योग्यः अस्ति । विश्वे सौन्दर्यार्थं सुप्रसिद्धेन स्काटलैण्डदेशेन सह तोलयितुं शक्यः। कावेरीनद्याः जन्मस्थानं प्रवहणभूमिः च । अतः कावेरीमण्डलम्ल्लाकावेरीमण्डलम् इत्यपि ख्यातम् अस्ति । पूर्वं पृथकराज्यमासीत् । इदानीं कर्णाटकराज्ये विलीनस्य एतस्य मण्डलम् इति स्थानं कल्पितम् अस्ति । तथापि स्वकीयभाषा-संस्कृति-परम्पराणां वैशिष्ठ्यकारणतः एतस्य मण्डलस्य विशिष्ठं स्थानम् अस्ति ।
कन्नडभाषया कुडु नाम गिरिः इति अर्थः । गिरिकन्द्ररप्रदेशं एतं कोडगु इति कथितवन्तः । मडिकेरी (मर्केरा इति आग्ङ्गलभाषया वदन्ति) मण्डलस्य केन्द्रम् अस्ति ।
उपमण्डलानि- ३ तानि च विराजपेटे, मडिकेरी, सोमवारपेटे च।
==विस्तीर्णता==
पवित्रस्थानानि – [[मडिकेरी]] [[तलकावेरी]] [[भागमण्डलम्]]
४१०२ च.कि.मी.मिता ।
==स्थानम्==
अस्य मण्डलस्य पश्चिमदिशि दक्षिणकन्नडमण्डलम् , उत्तरदिशि हासनमण्डलं, पूर्वदिशि मैसूरुमण्डलं, दक्षिणदिशि केरळराज्यस्य कण्णूरुमण्डलं, च सन्ति । अस्मिन् मण्डलेपि प्रधानः उद्योगः काफीकृषिः एव । कोडगुमण्डलं पूर्वं ब्रिटिश्प्रभुत्वकाले राज्यम् एव आसीत् । कालान्तरेण ते एतत् मण्डलं मैसूरुराज्ये विलीनं कृतवन्तः ।
==कृषिः==
अस्मिन् मण्डलेपि प्रधानः उद्योगः काफीकृषिः एव । कोडगुमण्डले मरीचिकाः, एलाः, नारङ्गाः, शालिधान्यानि च प्रधानतया प्ररोहन्ति ।
==उपमण्डलानि==
अत्र मडिकेरी, विराजपेटे, सोमवारपेटे, इति उपमण्डलत्रयम् अस्ति ।
==भाषा संस्कृतिः च==
अत्रस्थान् जनान् कोडवाः इति कन्नडे कथयन्ति । प्रशासनभाषा कन्नड एव अस्ति किन्तु कोडवतक्क् अत्र प्रादेशिका भाषा अपि जनाः भाषन्ते । मलयाळं, अरेगन्नड, तुळु, रावुल इत्याद्याः भाषाः अत्र भाष्यन्ते । कोडवभाषा इति यदस्ति तस्याः लिपिः नास्ति एव । एते सर्वे जनाः हैन्दवकृषकाः सन्ति ।
==प्रेक्षणीयस्थानानि==
कोडगुमण्डले प्रधानतया पर्यटककेन्द्रत्रयम् अस्ति । मडिकेरीमध्ये [[अब्बिजलपातः]], ओङ्कारेश्वरमन्दिरम्, राजगद्दुगे, [[तलकावेरी]], सोमवारपेटे मध्ये कावेरीनिसर्गधाम, कोप्पप्रदेशे स्वर्णमयदेवालयः, वीरभूमिः, दुबारे, [[हारङ्गिजलाशयः]], चिक्लिहोळे,होन्नम्मनकेरे, [[मल्लळ्ळि जलपातः]], वीराजपेटेप्रदेशे नागरहोळे, [[इर्पुजलपातः]], कुन्द टि एस्टेट् च दर्शनीयानि स्थानानि सन्ति ।
==पवित्रस्थानानि==
पवित्रस्थानानि – [[मडिकेरी]] [[तलकावेरी]] [[भागमण्डलम्]]
 
१. भागमण्डलम् -अस्य क्षेत्रस्य [[भगण्डेश्वरक्षेत्रम्]] इति प्रसिद्धिः अस्ति । [[भगण्डऋषिः]] अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति विश्वासः अस्ति। एतत् क्षेत्रम् [[दक्षिणप्रयागः]] इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुजोतिनदीनाम् सङ्गमः अस्ति । अत्र स्नानकरणेन पुण्यसम्पादनं भवति । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलास्ंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः गच्छन्ति ।
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्