"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः|कालिदासः]] “उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’ इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
:'''असतो मा सद्गमय ।
:'''तमसो मा ज्योतिर्गमय ।'''
:'''मृत्योर्मा अमृतङ्गमय ॥'''
:'''ऒं शान्तिः शान्तिः शान्तिः ॥'''
इत्येषा सर्वस्य अपि हिन्दुजनस्य प्रार्थना । एतां प्रार्थनां साकारीकर्तुं विभिन्नेषु कालेषु विभिन्नेषु प्रदेशेषु विभिन्नानि पर्वाणि आचरणपथम् आगतानि ।
 
हिन्दुधर्मः प्रत्येकमपि जनं कर्मत्रयं बोधयति । नित्यकर्म, नैमित्तिककर्म, काम्यकर्म चेति । नित्यकर्म नाम प्रतिदिनं करणीयं कर्म – उदाहरणार्थं पूजा, प्रार्थना, ध्यानं, सन्ध्यावन्दनम् इत्यादीनि । नैमित्तिककर्म नाम निमित्ते सति करणीयं कर्म – उदाहरणार्थं पर्व, जयन्त्युत्सवादयः च । काम्यकर्म नाम मनसः इच्छापूर्त्यर्थं करणीयं कर्म – उदाहरणार्थं व्रतं, यज्ञयागादिकं च । प्रत्येकम् अपि जनं निरन्तरं सुसंस्कृतं कर्तुं ये वैज्ञानिकाः विचाराः मनःशास्त्रस्य अनुगुणं सन्ति तेषाम् एव आधारेण एते कर्मविचाराः विधिनियमाः अपि रचिताः सन्ति । '''कारणं विना मधुरं न भुञ्जीत''' इत्येतं धर्मसूक्ष्मविषयं वाल्मीकिमुनिः [[रामायणम्|रामायणस्य]] [[अयोध्याकाण्डम्|अयोध्याकाण्डे]] उल्लिखति । [[महाभारतम्|महाभारतस्य]] [[विधुरनीतिः|विधुरनीतिः]] अपि एतत् एव वदति । यथा –
:'''एको स्वादु न भुञ्जीत, एकश्चार्थान्न भुञ्जयेत् ।
:'''एको न गच्छेदध्वानं, नैकः सुप्तेषु जागृयात् ॥'''
विभज्य खादनस्य, अन्येभ्यः दानस्य वा पाठः पर्वणाम् आचरणद्वारा बाल्यादेव बालाः पाठयितुं शक्याः । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन '''वयं सर्वे भारतीयाः''' इति ऐक्यं वर्धते । प्रादेशिकादिपर्वणाम् आचरणेन परस्परं स्नेहः वर्धते । धार्मिकपर्वाणि सर्वाणि अपि धर्मबुद्धिं जागरयन्ति । तत्तत्पर्वावसरे निर्दिष्टः कश्चन आहरक्रमः वर्तते । तेन ऋतुकालादिक्रमेण सेव्यमानेन [[आहारः|आहारेण]] दैहिकम् आरोग्यं वर्धते । पर्वावसरे परस्परं बान्धवानां मेलनेन, संलापेन, भजनादिना धार्मिकाचरणेन वा शान्तिः मानसिकारोग्यं च वर्धते ।
 
अद्य गृहेषु अस्माकं सम्प्रदायान्, सांस्कृतिकानि मौल्यानि, धर्मसूक्ष्माणि च बोधयितारः वृद्धाः न सन्ति । विद्यमानाः गृहिणिगृहस्थाः आर्थिकसम्पादने निरताः । बालाः दूरदर्शन-सङ्गणकादिषु सम्पर्कमाध्यमेषु लीनाः । एवं सति पर्वादीनां पृष्ठभूमिका वा महत्त्वं वा कथं ज्ञायेत बालैः ? अतः अद्यतनजगति पर्वाचरणं स्वादुभक्ष्याणां भोजनेन नूतनवस्त्राणां धरणेन च समाप्यते एव । भक्ष्यवस्त्रादीनि धनं दत्तं चेत् सर्वदा प्राप्यते एव । तर्हि पर्वणः वैशिष्ट्यं किम् ? इति पृष्ठे सति एवम् उत्तरं भवेत् - कृतज्ञतासमर्पणम्, ऋतुकालानुगुणम् आहारक्रमः, बान्धव्यवर्धनं, धार्मिकाचरणं, स्वच्छतारक्षणं चेति बहूनि वैशिष्ट्यानि सन्ति पर्वाचरणस्य । यतः अद्यतनजगति सर्वेपि अत्यन्तं कार्यव्यग्राः भवन्ति । “समयाभावः” इत्येषः शब्दः सदा सर्वेषां मुखात् निस्सरति । अतः पर्वव्याजेन परस्परं बान्धवानां मेलनं भवेत्, गृहस्य तथा पूजावस्तूनां स्वच्छता भवेत्, वर्षे कतिपयवारं वा धार्मिकविधीनाम् आचरणं भवेत्, अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् । एवं क्रमेण विस्म्रियमाणा अस्माकं भारतीयसंस्कृतिः पुनः स्मर्येत ।
 
 
पाश्चात्त्यसंस्कृतेः प्रभावयुतस्य जीवनस्य कारणात् वयम् अस्माकम् आचरणेषु बहूनाम् आचरणानां विशिष्टानि पदानि वा तेषां पदानाम् अर्थं वा न जानीमः एव । यथा –
:(स्वर्ण-रजत-ताम्र-कांस्य-पित्तल-मृत्तिकायाः वा स्यात् कलशः)
:१७. “उपवासः” – समीपे वासः (देवस्य समीपे इत्यर्थः) ।
 
 
पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, [[स्तोत्राणि|स्तोत्राणि]] वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – '''युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तत्रयोदशी, श्रावणपूर्णिमा, महालय-अमवास्या''' च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।
 
:१. चान्द्रमान[[युगादिः|युगादिः]] – चैत्रशुक्लप्रतिपत् ।
:२. सौरमानयुगादिः – मेषसङ्क्रमणम् ।
१,७०३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/126456" इत्यस्माद् प्रतिप्राप्तम्